HBSE 9th Class Sanskrit अपठित अवबोधनम्

Haryana State Board HBSE 9th Class Sanskrit Solutions Apathit Avbodhnam अपठित अवबोधनम् Exercise Questions and Answers.

Haryana Board 9th Class Sanskrit अपठित अवबोधनम्

Apathit Avbodhnam In Sanskrit Class 9 HBSE

‘अपठित’ शब्द का अर्थ है न पठित अर्थात् ऐसी विषयवस्तु, जो पाठ्यपुस्तक से भिन्न हो। अपठित गद्यांश में निपुणता प्राप्त करने के लिए निम्नलिखित बिन्दुओं पर ध्यान देना आवश्यक है
(1) अपठित गद्यांश के प्रश्नों का उत्तर देने से पूर्व उसे दो-तीन बार अच्छी तरह से पढ़ना चाहिए।
(2) गद्यांश में प्रयुक्त कठिन शब्दों के अर्थ यदि स्पष्ट न हो रहे हों तो कठिन शब्दों वाले सम्पूर्ण वाक्य को ध्यान से पढ़कर भाव ग्रहण करने का प्रयास करना चाहिए।
(3) गद्यांश में प्रयुक्त अव्ययों तथा विभक्तियों पर भी विशेष ध्यान देना चाहिए। ऐसा न करने पर उत्तर प्रायः गलत हो सकते हैं।

अधोलिखितान् गद्यांशान् पठित्वा प्रश्नानां उत्तराणि लिखत

1. भारतदेशस्य उत्तरदिशि पर्वतराजः हिमालयः तिष्ठति। पुरा अत्र मुनयः तपन्ति स्म। एकस्मिन् आश्रमे एकः मुनिः अनेके शिष्याः च अवसन्। आश्रमे बहूनि पुष्पाणि फलानि च भवन्ति स्म। गुरुः शिष्यान् पाठयति स्म। शिष्याः गुरोः आश्रमस्य च सेवाम् अकुर्वन्।
(i) गद्यांशात् द्वे ‘अव्यय’ पदे चित्वा लिखत?
(ii) शिष्यान् कः पाठयति स्म?
(iii) गुरोः सेवां के अकुर्वन् ?
(iv) ‘सेवाम’ अत्र का विभक्तिः किं वचनं च?
(v) ‘तिष्ठति’ इति पदे कः धातुः कः लकारः च?
उत्तराणि:
(i) अत्र, च।
(ii) शिष्यान् गुरुः पाठयति स्म।
(iii) गुरोः सेवां शिष्याः अकुर्वन् ।
(iv) अत्र द्वितीया विभक्ति, एकवचनम् च।
(v) स्था धातु, लट् लकार प्रथम पुरुष एकवचनम्।

HBSE 9th Class Sanskrit अपठित अवबोधनम्

2. संस्कृत पुरा भारतीयानां लोकप्रिया जनभाषा आसीत्। रामायण-महाभारत काले संस्कृतम् एव जनभाषा-रूपेण प्रचलिता आसीत् । वाल्मीकिः रामायणे इमां भाषां ‘मानुषी’ इति नाम्ना निर्दिशति। संस्कृतम् एव आधुनिक प्रान्तीय भाषाणां जननी अस्ति। सर्वासु प्रान्तीय भाषासु प्रतिशतकं षष्टिः शब्दाः संस्कृतभाषायाः एव सन्ति। संस्कृतस्य ज्ञानादेव प्रान्तीय भाषाणां सम्यग् ज्ञानं भवति।।
(i) संस्कृत कदा भारतीयानां लोकप्रिया जनभाषा आसीत्?
(ii) संस्कृत केषां जननी अस्ति?
(iii) कस्मिन् ग्रन्थे संस्कृतभाषां ‘मानुषी’ इति कथितम्?
(iv) संस्कृतस्य ज्ञानात् केषां ज्ञानं भवति?
(v) भाषाणां’ इति पदे का विभक्तिः अस्ति ?
उत्तराणि:
(i) संस्कृत पुरा भारतीयानां लोकप्रिया जनभाषा आसीत्।
(ii) संस्कृतम् आधुनिक-प्रान्तीय भाषाणां जननी अस्ति।
(iii) वाल्मीकिः रामायणे संस्कृतभाषां ‘मानुषी’ इति कथितम्।
(iv) संस्कृतस्य ज्ञानात् प्रान्तीय भाषाणां ज्ञानं भवति।
(v) ‘भाषाणां’ इति पदे सप्तमी विभक्तिः अस्ति ।

3. कस्मिंश्चित् वने एकः महाचतुरकः नामकः शृगालः वसति स्म। सः कदाचित् वने एकं मृतं महागजम् अपश्यत्। सः तस्य कठिनां त्वचं भेतुम् अयतत् परं सफलो न अभवत्। अत्रान्तरे एकः सिंहः तत्रैव आगच्छत् । सिंहं दृष्ट्वा शृगालः अवदत्-स्वामिन्! अहं तव सेवकः । तवैव भोजनार्थं गजमिमं रक्षामि। सिंहः तम् एवं प्रणतं दृष्ट्वा अवदत्-अन्येन हतं जीवं नाहं खादामि। अहः इमं गजम् अहं तुभ्यमेव यच्छामि।
(i) शृगालः कुत्र वसति स्म?
(ii) शृगालः वने किम् अपश्यत् ?
(iii) सिंहः किम् अवदत् ?
(iv) सिंहं दृष्ट्वा शृगालः किम् अवदत्?
(v) कस्मिंश्चित् वने कः वसति स्म?
उत्तराणि:
(i) शृगालः कस्मिंश्चित् वने वसति स्म।
(ii) शृगालः वने एकं मृतं महागजम् अपश्यत्।
(iii) सिंहः अवदत्-यत् अन्येन हतं जीवं नाहं खादामि।
(iv) सिंहं दृष्ट्वा शृगालः अवदत्-स्वामिन् ! अहं तव सेवकः। तवैव भोजनार्थं गजमिमं रक्षामि।
(v) कस्मिंश्चित् वने एकः महाचतुरकः नामकः शृगालः वसति स्म।

अपठित अवबोधनम् संस्कृत Class 9 HBSE

HBSE 9th Class Sanskrit अपठित अवबोधनम्

4. देशाटनस्य बहवः लाभाः सन्ति। एतेन वयं सर्वेषां देशानां राजनीतिक, सामाजिक, सांस्कृतिकं च रूपं ज्ञातुं समर्थाः स्यामः, अद्यतनीयो व्यापारः अपि प्रायशः अन्तर्राष्ट्रिय-व्यापारः सञ्जातः। कस्मिन् देशे कदा किं च सुलभम् एतस्य ज्ञानं सर्वथा अनिवार्यम् । बहवः एतादृशः अपरिपक्वाः पदार्थाः सन्ति येषां प्राप्तिः पदार्थानां निर्माणाय अनिवार्य अस्ति। अतः तान् पदार्थान् प्राप्तुं देशाटनं कर्तव्यमेव।
(i) देशाटनेन वयं किं ज्ञातुं समर्थाः स्यामः?
(ii) पदार्थानां निर्माणाय किं अनिवार्यः अस्ति?
(iii) कान् प्राप्तुं देशाटनं कर्तव्यम् ?
(iv) देशाटनस्य कति लाभाः सन्ति?
(v) ‘प्राप्तुम्’ इति पदे कः प्रत्ययः प्रयुक्तः?
उत्तराणि:
(i) देशाटनेन वयं सर्वेषां देशानां राजनीतिक, सामाजिक, सांस्कृतिकं च रूपं ज्ञातुं समर्थाः स्यामः।
(ii) बहवः एतादृशः अपरिपक्वाः पदार्थाः सन्ति येषां प्राप्तिः पदार्थानां निर्माणाय अनिवार्य अस्ति।
(iii) पदार्थान प्राप्तुं देशाटनं कर्तव्यम्।
(iv) देशाटनस्य बहवः लाभाः सन्ति।
(v) ‘प्राप्तुम्’ इति पदे ‘तुमुन्’ प्रत्ययः अस्ति।

5. कदाचिद् वर्षास्वपि वृष्टेरभावात् तृषार्तो गजयूथो यूथपतिमाह “राजन, नास्त्यस्माकं जीविताशा। अस्मिन दारुणे जलाभावे निमज्जनाभावादार्ता वयं क्व यामः किं वा कुर्मः?” एवमुक्तो यूथपति तिदूरं गत्वा तानेकं प्रभूतसलिलं सरो दर्शितवान्। तत्र गच्छतां गजानां युगपद् अतिस्भसपादपाताहतिभिस्तस्य सरसस्तीरे शयानाः शशकाः लूनानां धान्यानां प्रकरा गोगणैरिव अवमर्दिता।
(i) तृषार्तो गजयूथो यूथपतिं किम् आह?
(ii) किं दर्शितवान्?
(iii) कीदृक् जलाभावः आसीत्?
(iv) के अवमर्दिता?
(v) ‘प्रभूतसलिलं’ इति पदयोः विशेषणपदम् किं अस्ति?
उत्तराणि:
(i) राजन्, नास्त्यस्माकं जीविताशा। अस्मिन् दारुणे जलाभावे निमज्जनाभावादार्ता वयं क्व यामः किं वा कुर्मः?
(ii) तान् एकं प्रभूतसलिलं सरो दर्शितवान्।
(iii) दारुणः जलाभावः आसीत्।
(iv) शयानाः शशकाः अवमर्दिताः।
(v) ‘प्रभूतः’ इति विशेषण पदम् अस्ति।

Apathit Avbodhnam HBSE 9th Class Sanskrit

HBSE 9th Class Sanskrit अपठित अवबोधनम्

6. विद्याधनं सर्वधनप्रधानम् इति सत्यमेव विद्याधनस्य इदं वैशिष्टयं, यत् अन्यत् धनं व्ययात् क्षयमाप्नोति परं विद्याधनं व्ययात् वृद्धिम् आप्नोति। कस्यचिदपि पदार्थस्य सम्यक् ज्ञानं विद्या इति कथ्यते। विद्यया वयं विनम्राः भवामः, विनयात् वयं पात्रतां प्राप्नुमः, पात्रत्वात् धनं प्राप्यते, धनात् धर्मकार्याणि निष्पद्यन्ते यैः अस्माभिः सुखं लभ्यते। विद्यया एव मानवः सर्वत्र प्रतिष्ठां लभते।
(i) विद्याधनं कीदृशं धनम् अस्ति?
(ii) विद्यया कथं कानि निष्पद्यन्ते?
(iii) विद्याधनं व्ययात् किम् आप्नोति?
(iv) पदार्थस्य सम्यक ज्ञानं किं कथ्यते?
(v) ‘सर्वत्र प्रतिष्ठां लभते’ अत्र किं अव्ययपदं?
उत्तराणि:
(i) विद्याधनं सर्वधनप्रधानं धनम् अस्ति।
(ii) विद्यया वयं विनम्राः भवामः, विनयात् वयं पात्रतां प्राप्नुमः, पात्रत्वात् धनं प्राप्यते, धनात् धर्मकार्याणि निष्पद्यन्ते।
(iii) विद्याधनं व्ययात् वृद्धिम् आप्नोति।
(iv) पदार्थस्य सम्यक् ज्ञानं विद्या इति कथ्यते।
(v) अत्र ‘सर्वत्र’ इति अव्यय पदम् अस्ति।

7. किम् अस्ति गीता ? ‘गीता’ उपनिषदां सारः अस्ति। श्रीकृष्णः कुरुक्षेत्रज्योतिसरस्तटे युद्धभूमौ विषादग्रस्ताय श्री वीर अर्जुनाय यदुपदिष्टं सा-एव गीता। गीतायाः अष्टादशअध्यायेषु 700 श्लोकाः सन्ति। एते मानवकल्याणाय सन्ति। अत्र सर्वासांसमस्यानां समाधानम् अस्ति।गतवर्षे गीता-मनीषी-स्वामी ज्ञानानन्द महाराजस्य प्रेरणया हरियाणा सर्वकारेण अन्तर्राष्ट्रीयः गीता-महोत्सवः आयोजितः। एतच्छधानीयमस्ति। अस्माभिः गीता नैव पठनीया अपितु आचरणीया।
(i) गीतायां कति अध्यायाः सन्ति?
(ii) कस्यां सन्ति 700 श्लोकाः?
(iii) श्रीकृष्णः गीतोपदेशं कस्मै अयच्छत्?
(iv) अस्माभिः किं करणीयम्?
(v) कस्य प्रेरणया गीता-महोत्सवः आयोजितः?
उत्तराणि:
(i) गीतायां अष्टादश अध्यायाः सन्ति ।
(ii) गीतायाम् 700 श्लोकाः सन्ति।
(iii) श्रीकृष्णः गीतोपदेशं अर्जुनाय अयच्छत्।
(iv) अस्माभिः गीता नैव पठनीया अपितु आचरणीया।
(v) गीता-मनीषी-स्वामी ज्ञानानन्द महाराजस्य प्रेरणया गीता-महोत्सवः आयोजितः।

अपठित अवबोधनम् HBSE 9th Class Sanskrit

HBSE 9th Class Sanskrit अपठित अवबोधनम्

8. कस्मिंश्चिन्नगरे चत्वारो ब्राह्मण पुत्राः वसन्ति स्म। तेषां त्रयः शास्त्रपारङ्गताः परं व्यावहारिक-बुद्धिहीना आसन्, एकस्तु व्यवहारकुशलः शास्त्र-ज्ञान-विमुखः आसीत् । एकदा वने विचरन्तः ते कतिचिद् अस्थीनि अवलोकितवन्तः। तेषु एकः विज्ञानबलेन अस्थि-सञ्चयमकरोत् । द्वितीयाः तस्मिन् चर्म-मांस रुधिरं संयोजितवान् । तृतीयो यावत् तस्मिन् प्राण-सञ्चारं कर्तुमुद्यतः तावत् सुबुद्धि ते निषेधयन् अवदत्-भोः, तिष्ठतु भवान्। एष सिंहः क्रियते यदि एष जीविष्यति तर्हि सर्वानपि भक्षयिष्यति।
(i) ब्राह्मण पुत्राः कुत्र वसन्ति स्म?
(ii) एकदा ते कुत्र कानि अवलोकितवन्तः?
(iii) तेषु एकः केन बलेन अस्थि सञ्चयम् अकरोत् ?
(iv) तृतीयः किं कर्तुम् उद्यतः?
(v) ‘भविष्यति’ इति पदे को लकारः अस्ति?
उत्तराणि:
(i) ब्राह्मण पुत्राः कस्मिंश्चिन्नगरे वसन्ति स्म।
(ii) एकदा ते वने विचरन्तः कतिचिद् अस्थीनि अवलोकितवन्तः।
(iii) तेषु एकः विज्ञानबलेन अस्थिसञ्चमकरोत् ।
(iv) तृतीयः प्राणसञ्चारः कर्तुम् उद्यतः।
(v) ‘भविष्यति’ इति पदे ‘लृट् लकारः अस्ति।

9. यदस्माभिः स्वामिना विना नावस्थातव्यम् । भवांश्च सर्वैरपि स्वामिगुणैः सम्पन्नः। अतः एतस्य वनस्य राज्येऽभिषेक्तुं भवानेव योग्यः। ततो यथाभिषेकवेला नात्येति तथा सत्वरमायातु देवः। हस्ती प्रत्यवदत्-‘न खलु चिन्तयन्नपि निपुणं तमात्मनो गुणमवलोकयामि यस्यायमनुरूपोऽनुग्रहातिरेकः। तथाप्युदारजनादरो बहुमानमारोपयत्यवश्यम्, तद् अनुगृहीतोऽस्म्यहमनया वनवासिनां सम्भावनया। यथाजोषं क्रियताम् । सज्जोऽस्म्यभिषेकाय। तद् यदि नातिखेदकरं तर्हि अभिषेकमण्डलमार्गमादेशय।
(i) अस्माभिः केन विना नावस्थातव्यम् ?
(ii) तद् कि आदेशय?
(iii) गजः केषां सम्भावनया अनुगृहीतः अस्ति?
(iv) कस्य वेला न अत्येति?
(v) ‘योग्यः’ इति पदस्य विलोमपदं लिखत।
उत्तराणि:
(i) अस्माभिः स्वामिना विना नावस्थातव्यम्।
(ii) तद् नातिखेदकरं तर्हि अभिषेकमण्डलमार्गम आदेशय।
(iii) गजः वनवासिनां सम्भावनया अनुगृहीतः अस्ति।
(iv) अभिषेकस्य वेला न अत्येति।
(v) ‘योग्यः’ इति पदस्य विलोमपदम् ‘अयोग्यः’ अस्ति।

Pathit Avbodhnam In Sanskrit HBSE 9th Class

HBSE 9th Class Sanskrit अपठित अवबोधनम्

10. पुरा भारते भरतः नाम प्रतापी नृपः आसीत् । तस्य राज्यं विस्तृतमासीत् । राज्यप्रबन्धे भरतः अतीव कुशलः आसीत्। सर्वे जनाः तस्य राज्ये सुखिनः आसन्। इदं कथ्यते यत् भरतस्य नाम्ना एव अस्य देशस्य नाम भारतम् अभवत्।
(i) भरतः कीदृशः नृपः आसीत् ?
(ii) भरतः कस्मिन् कुशलः आसीत् ?
(iii) के भरतस्य राज्ये सुखिनः आसन् ?
(iv) कस्य नाम्ना अस्य देशस्य नाम भारतम् अभवत्?
(v) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तराणि:
(i) भरतः प्रतापी नृपः आसीत्।
(ii) भरतः राज्यप्रबन्धे कुशलः आसीत्।
(iii) भरतस्य राज्ये सर्वेजनाः सुखिनः आसन्।
(iv) भरतस्य नाम्ना अस्य देशस्य नाम भारतम् अभवत्।
(v) प्रतापी नृपः भरतः।

Apathit Avbodhnam In Sanskrit HBSE 9th Class

अभ्यासार्थ गद्यांश:

1. प्रकृतिः मनुष्यस्य उपकारिणी। मनुष्यैः सह तस्याः शाश्वतः सम्बन्धः। सा विविधरूपेषु अस्मिन् जगति आत्मानं प्रकटयति। पशवः, पक्षिणः, वनस्पतयः, च तस्याः एव अङ्गानि। निराशाः असहायाः जनाः तस्याः एव आश्रयं प्राप्नुवन्ति। सा स्वमनोहरेण सौन्दर्येण नीरसं हृदयम् अपि सरसं करोति । सूर्यः चन्द्रः च तस्याः नेत्रे । शस्य-श्यामला एषा भूमिः। विविधाः औषधयः सकलानि खनिजानि च प्रकृतेः एव शोभा। सा तु नित्यम् एव एतैः साधनैः सर्वेषाम् उपकारं करोति, परम् अधन्यः अयं जनः कृतज्ञतां विहाय असाधुसेवितं पथं गच्छति, विविधानि कष्टानि च अनुभवति। नरः शाश्वतं सुखं वाञ्छति चेत् तर्हि प्रकृतेः प्रतिकूलं कदापि न आचरेत् इति।
(i) प्रकृतेः शोभा का?
(ii) अस्य गद्यांशस्य शीर्षकं लिखत।
(iii) मनुष्यस्य उपकारिणी का?
(iv) मनुष्यैः सह कस्याः शाश्वतः सम्बन्ध?
(v) ‘नीरसं’ इत्यस्य विलोम पदं लिखत।

Sanskrit Apathit Avbodhnam HBSE 9th Class

HBSE 9th Class Sanskrit अपठित अवबोधनम्

2. एकदा एकः कर्तव्यपरायणः नगररक्षकः इतस्ततः भ्रमन् एकम् अशीतिवर्षीयं महापुरुषम् अपश्यत्। सः आम्रवृक्षस्य आरोपणे तल्लीनः आसीत्। इदं दृष्ट्वा नगररक्षकः तं महापुरुषम् अवदत्-अवलोकनेन प्रतीयते यत् यदा एषः वृक्षः फलिष्यति तदा भवान् जीवितः न भविष्यति। अतः किमर्थं वृथा परिश्रमं कुर्वन्ति भवन्तः? महापुरुषः हसित्वा अवदत्पश्यन्तु एतान् फलयुक्तान् वृक्षान् । एतेषाम् आरोपणं मया न कृतं परं फलानि अहं खादित्वा सन्तुष्टः भवामि । अतः यदा मम आरोपितस्य वृक्षस्य फलानि अन्ये खादिष्यन्ति, अहं पुनः प्रसन्नः भविष्यामि । महापुरुषस्य वचनं श्रुत्वा तं च नमस्कृत्य नगररक्षकः उक्तवान अनुकरणीया एव सज्जनानां सज्जनता।
(i) नगररक्षकः अशीतिवर्षीयं महापुरुषम् कुत्र अपश्यत् ?
(ii) अस्य गद्यांशस्य शीर्षकं लिखत।
(iii) नगररक्षकः कीदृशः महापुरुषः आसीत्?
(iv) सज्जनानां सज्जनता कीदृशी भवति?
(v) ‘श्रुत्वा’ इति पदे कः प्रत्ययः अस्ति?

3. कश्चित् वानरः भूतले समागतं मकरं पृच्छति-भवान् किमर्थं भूतले समागतः? मकरः कथयति धन्याः भवादृशाः प्रियवादिनः ये स्थलोत्पन्नाः सन्ति। तच्छ्रुत्वा वानरः अतिथये पक्वफलानि अर्पयति। मकरेण फलानि निजदयितायै अर्पितानि। तानि भक्षयित्वा सा चिन्तयति-नित्यं मधुर फलानां सेवनेन वानरहृदयस्य मांसं अमृतोपमस्यात् । सा पतिं कथितवती-यदि त्वं मां जीवितां दृष्टुमिच्छसि, तदा वानरहृदय मांस भक्षणस्य कामना पूरय। मकरः समुद्रतटं गत्वा वानराय निवेदयति तव भातृजाया त्वामाकारयति। वानरः प्रार्थनां स्वीकरोति। वानरं समुद्रमध्ये नीत्वा मकरः यथावृत्तं तस्मै सूचयति। चतुरः वानरः वदति-‘मम हृदयं तु वृक्षे वर्तते । तत्र नीत्वा मुञ्च माम् येन स्वहृदयं गृहीत्वा पुनः आगमिष्यामि।’ तत्र नीतः वानरः तत्पृष्ठतः समुत्तीर्य शाखिनम् आरुह्य वदति-‘जल मार्गानुसारिणां स्थलजैः सङ्गतिः न भवति।’
(i) कस्मात् कारणात् वानरस्य हृदयं अमृतोपमंस्यात् ?
(ii) शाखिनम् आरुह्य वानरः किम् अवदत् ?
(iii) वानरः अतिथयेः किम् अर्पयति?
(iv) किं भक्षणाय मकरी पतिं कथितवती?
(v) ‘आगमिष्यामि’ इति पदे कः लकारः अस्ति?

HBSE 9th Class Sanskrit अपठित अवबोधनम्

4. एकदा कौरव-पाण्डवानां शस्त्रपरीक्षा अभवत् । आचार्यः द्रोणः एक कृत्रिमं खगं वृक्षशाखायां स्थापितवान् । अयं कृत्रिमः खगः सर्वेषां लक्ष्यम् आसीत्। आचार्य द्रोणः तस्मिन् खगे बाणचालनात् पूर्वं युधिष्ठिरम् अपृच्छत्-त्वं किं किं पश्यसि? युधिष्ठिरः अब्रवीत्-अहं खगं, वृक्ष, भवन्तं, सर्वान् सहचरान् च पश्यामि । आचार्य द्रोणः तम् अपसारितवान्। पश्चात् सर्वे राजपुत्राः क्रमशः आहूताः पृष्टाश्च। सर्वेः तदेव कथितं यत् युधिष्ठिरेण कथितम् आसीत्। अन्ते अर्जुनः पृष्टः। सः अवदत् अहं केवलं खगं एव पश्यामि। आचार्यः प्रसन्नः भूत्वा लक्ष्यवेधाय तम् आदिशत्। अर्जुनः सफलः जातः।
(i) आचार्यः द्रोणः कं कुत्र स्थापितवान् ?
(ii) अस्य गद्यांशस्य शीर्षकं लिखत।
(iii) खगः कीदृशः आसीत्?
(iv) शस्त्र परीक्षायां कः सफलः जातः?
(v), ‘कृत्रिमः’ इति विशेषणस्यविशेष्यं किम् ?

Leave a Comment

Your email address will not be published. Required fields are marked *