Haryana State Board HBSE 11th Class Sanskrit Solutions रचना nibandh lekhanam निबंध-लेखनम् Exercise Questions and Answers.
Haryana Board 11th Class Sanskrit रचना निबंध-लेखनम्
1. प्रातःकालीन भ्रमणम्
प्रातःकालःभ्रमणाय सर्वोत्तमः कालः भवति।यथा जीवनाय भोजनस्य आवश्यकता भवति तथैवजीवनाय भ्रमणस्य अपि आवश्यकता भवति। प्रातःकाले भ्रमणेन शरीरः स्वस्थं नीरोगः च भवति। सर्वेषु व्यायामेषु भ्रमणम् सर्वोत्तमः व्यायामः भवति । एतत् तनुं नवी करोति मस्तिष्कं च शीतली करोति। भ्रमणानन्तरं मानवः सर्वदा प्रसन्नः तिष्ठति। अहं नियमित रूपेणं प्रातः भ्रमणं करोमि। अहं चतुर्दश वर्षीयः बालःस्व चत्वारः मित्रैः सह प्रतिदिनं भ्रमणाय गच्छामि । मार्गे अनेके गोपालाः मम दृष्टिपथम् आयान्ति। ते दुग्धस्य पात्राणि द्विचक्रिकाभिः आनयन्तः दृश्यन्ते। भ्रमणं-कुर्वन्तः अहं एकस्मिन् उद्याने गच्छामि। तत्र प्रकृते सौन्दर्यम् मनः मोहयति। अभिनवानि विकसितानि पुष्पाणि दृष्ट्वा मन मनसि आनन्दः उत्पद्यते।
वृक्षाणां शाखासु मधुरं-मधुरं कूजन्तः पक्षिणः कर्णयोः अमृत रसं सिञ्चन्ति। दुर्वाङ्करेषु पतिताः जलकणिकाः मौक्तिकवत् प्रतीयन्ते। अहं द्वादशमिनट पर्यन्तं हरितघासे नग्न पादाभ्यां संचरामि । एतत् संचरणं मम शरीरे स्फूर्ति जनयति, दृष्टि च आनन्दयति। अस्मिन उद्याने अनेके अन्येऽपि भ्रमणप्रियाः जनाः दृश्यन्ते। उद्यानं परितः एका नदी अपि प्रवहति। केचित् जनाः नद्याः तटे भ्रमणं कुर्वन्ति। केचित् च व्यायाम कुर्वन्ति । निज स्वास्थ्यरक्षायै सर्वेषां जनानां बालानां वा प्रातःभ्रमण अवश्यं कुर्वेयुः ।
2. स्वच्छतायाः महत्त्वम्
‘स्वच्छता’ एका क्रिया अस्ति । यस्मात् अस्माकं शरीरः, मस्तिष्कः, वस्त्राणि, गृहाणि, कार्यक्षेत्राणि च शुद्धः पवित्रश्च भवति ।अस्माकं शारीरिक-मानसिक स्वास्थ्यायं स्वच्छता’ अत्यावश्यकम् अस्ति । अस्मान् स्वच्छतां निज स्वभावे जीवने च स्थापयित्वा अस्वच्छतायाः सर्वथा परित्यागं कुर्वेत् । यतोहि अस्वच्छता सर्वेषां रोगाणां मूलाधारम् अस्ति। यः जनः प्रतिदिनं स्नानं न करोति, निज वस्त्राणि न प्रक्षालयति, गृहं निकषा पर्यावरणं मलेन प्रदूषितं करोति, सः तु सर्वदा रुग्णः भूत्वा दुःखी भवति । मलयुक्त क्षेत्रेषु अनेके कीटाणवः प्रादर्भवन्ति। ये अनेकान रोगान जनयन्ति। एतस्मात् कारणात् स्वच्छतायाः विशेष महत्त्वम् अस्ति। भोजनात् पूर्वं हस्तौ प्रक्षाल्य भोजनं कुर्वेत् । शारीरिक-मानसिक स्वच्छतायै अस्माकम् आत्मविश्वासंवर्धति।सम्पूर्ण भारतवर्षे स्वच्छतायाः प्रचार-प्रसारणाय भारतसर्वकारेण अनेकानि कार्यक्रमाणिसामाजिकनियमाश्च निर्मितानि।
‘स्वच्छभारत-अभियानम्’ इत्याख्यं महाभियानं भारतगणराज्यस्य प्रधानमन्त्रिणा नरेन्द्र मोदी महाभागेन उद्घोषितम् । 2014 तमस्य वर्षस्य अक्टूबर मासस्य द्वितीये (02/10/2014) दिनांके स्वच्छभारत अभियानस्य आरम्भः अभवत् । प्रधानमन्त्री नरेन्द्र मोदी भारतं न्यवेदयत्-“सर्वे स्वच्छभारताभियाने योगदानं यच्छन्तु” इति। तस्मिन् दिने स्वयं प्रधानमन्त्री स्वहस्ते मार्जनीं धृत्वा नवदेहली महानगरस्ये मन्दिरमार्गे स्वच्छता कार्य प्रारभत।
3. संस्कृतभाषायाः महत्त्वम्
संस्कृत भाषा विश्वस्य प्राचीनतमा भाषा अस्ति । इयं सर्वासाम् भाषाणाम् जननी अस्ति। आदिग्रन्थाः अपि संस्कृते सन्ति। पुरा इयं लोकव्यवहारस्य भाषा आसीत्। सर्वे जनाः संस्कृते वार्तालापम् अकुर्वन्। भारतस्य सर्वाः भाषाः संस्कृतस्य पुत्र्यः सन्ति। अस्य साहित्यम् अतिविशालम् अस्ति। वेदाः, गीता, रामायणं महाभारतं च संस्कृतस्य गौरवम् वर्धन्ते। कालिदास-भास-भवभूति-महाकविभिः रचितानि काव्यानि, समस्ते विश्वे सम्मानितानि सन्ति। अस्माकं भारतीया संस्कृतिः संस्कृतभाषायाम् एव सुरक्षिता।
इयम् तु अस्माकं संस्कृतेः आत्मा अस्ति। अस्माकं भूतं भविष्यं च सर्वम् अपि अनया सम्बद्धम् वर्तते। अस्माकं सर्वाणि आदर्श वाक्यानि ‘सत्यमेवजयते’, ‘अहिंसा परमो धर्मः’ आदि संस्कृत भाषायाम एव सन्ति। इयं वैज्ञानिकी समृद्धा च भाषा अस्ति। सामाजिक-सांस्कृतिक दृष्ट्या अस्याः परं महत्त्वम् अस्ति। अतः उक्तम्
“भारते भाति भारति।”
“सुरभारति विजयते।”
4. मम विद्यालयः
अहं हरियाणा प्रान्तस्य सर्वकारी विद्यालये पठामि। अयं विद्यालय मम गृहस्य-समीपे एव अस्ति। अस्य भवनं अत्यन्त सुन्दरं सुविशालं च अस्ति। अस्मिन् विद्यालये द्वादश कक्षाः सन्ति । वस्तुतः अयं विद्यामन्दिरं अस्ति यत्र सरस्वती पूज्यते। अस्मिन् विद्यालये विज्ञानप्रयोगशाला, पुस्तकालयः जलपानगृहं चापि अस्ति। विद्यालयस्य परिसरः रमणीयम् अस्ति। छात्राणाम् कृते विशालः क्रीडाक्षेत्रं अपि . अस्ति। अस्य विद्यालयस्य छात्रा अध्ययने निष्णाताः सन्ति । अध्ययने सहक्रीडायाम् अपि छात्राः निपुणा सन्ति यतोहि अत्र समये समये क्रीडाप्रतियोगिता भवति। अस्य विद्यालयस्य परीक्षाफलं अपि शतप्रतिशतम् भवति। अत्र छात्रा अनुशासनप्रियः सन्ति। नगरवासिनः अस्मिनु महाविद्यालये स्वशिशुन पाठने स्वगौरवम् अनुभवन्ति । अतः एव मम विद्यालयः समस्ते हरियाणा प्रान्ते सुप्रसिद्धः विद्यालयः अस्ति।
5. मम प्रियः कविः
महाकवेः वाल्मीकेः नाम संस्कृत वाङ्मये सहृदयान् आह्लादयति। महर्षि वाल्मीकिः एव तादृशः विश्रुतः लोकभावाभिज्ञः मानव-मनोविज्ञानविदग्धः कविः आसीत् यो रामचरितं आश्रित्य नैतिकादर्शानाम् उपस्थापकः सर्वजनग्राह्यं महाकाव्यं प्रणीतवान्। पुण्य सलिलायास्तमसायाः तटे रोदनं कुर्वन्तः-क्रौञ्चम् अवलोक्य तस्य महाकवेः कारुण्यपूर्णावाक् प्रास्फुरत् “मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत् क्रौञ्च मिथुनादेकअवधीः काममोहितम् ॥” तस्मिन् एवं काले ब्रह्मणोवचनात् भारतीय वाङ्मये लौकिकभावोपेता रामकथा मूला रामायणसरित् प्रसृता। इदं महाकाव्यं भाषायाः माधुर्येण, माधुर्य-ओज-प्रसादगुण-समन्वितत्वेन रचनाशैल्याः मधुरतया, सर्वेषां रसानां यथास्थानम् उपन्यासात् आचार संहितायाः संकलनेन अलङ्काराणां सुनियोजनेन संस्कृतसाहित्ये उपजीव्य महाकाव्यरूपे प्रसिद्धो अस्ति।
6. गीतायाः महत्त्वम्
अथवा
मम प्रियं पुस्तकम्
‘श्रीमद्भगवद्गीता विश्वस्य सर्वप्रियं पुस्तकम् अस्ति। गीता सर्वशास्त्रमयी वर्तते। महर्षिवेदव्यासेन सर्वेषां धर्मग्रन्थानाम् साररूपेण गीता प्रणीता आसीत् । अत एव सर्वेषां धर्मग्रन्थानाम् उदात्ताः सिद्धान्ताः अस्याम् एकत्र उपलभ्यते। उक्तं च “गीता सुगीता कर्त्तव्या किमन्यैः शास्त्रविस्तरैः।” श्रीमद्भगवद्गीतायां कर्मयोगस्य, ज्ञानयोगस्य, भक्तियोगस्य च त्रिवेणी प्रवहति। गीता निराशजनानां मनसि आशा-संचारं करोति। एषा मानवं उद्योगम् आश्रयितुम् वारं-वारं प्रेरयति। यथा अभिहितम् कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। गीतायाः अयमेव उपदेशः अस्ति यत् नरः आसक्तिं स्वार्थं च विहाय कर्म कुर्यात् । गीतानुसारेण मानवस्य शरीरं नश्वरम् अस्ति, परम् आत्मा अजरः अमरः च अस्ति। अतः शरीरस्य विनाशं विलोक्य मनुष्येन शोकः न कर्त्तव्यः। कर्त्तव्य-रक्षणेन मानवेन जीवनत्यागे अपि संकोचः न कर्त्तव्यः।
7. सत्यमेव जयते
अयं संसारः सत्येन सञ्चरति संवर्धते वा। सर्वेषां गुणानां सारभूतं सत्यमेवास्ति। भारतीय धर्मशास्त्रेषु सत्यस्य महती प्रशंसा विद्यते। सर्वोत्कृष्टः धर्मः सत्यमेव अस्ति। असत्यं सर्वाधिक महत् पापमस्ति। सत्यम् एतत् कथ्यते
“न हि सत्यात् परोधर्मः नानृतात् पातकं महत्।
सर्वम् त्ये प्रतिष्ठितमस्ति।”
सत्यपालनेन मनुष्यः संसारे सर्वत्र पूज्यते। सत्यस्य सर्वत्र जयः भवति, न च असत्यस्य। सत्येन एव जनः यशः, सुखं सफलतां च प्राप्नोति। सत्यवादी हरिश्चन्द्रः सत्यात् विचलितः नाभवत् अतः एव सः अद्यापि संसारे पूज्यते। सत्यपालकाः दशरथ युधिष्ठिर अशोकादयश्च अद्यापि विश्ववन्दनीयाः सन्ति । महात्मा गान्धी सत्येन एव राष्ट्रपिता अभवत्।
जीवने सदा सत्यं एव वक्तव्यम् सत्यमेव आचरणीयम्, सत्यमेव करणीयम्, सत्यमेव च पालनीयम्। मनः सत्येन एव शुद्धयति, न तु जलेन। सत्यवादिने जने सर्वे विश्वासं कुर्वन्ति । प्राचीनकाले भारतम् सत्याय विश्वप्रसिद्धमासीत्। अद्यापि भारतीयानां राष्ट्रीय-उद्घोषणा “सत्यमेव जयते” इति अस्ति।
अतः मनसा, वाचा, कर्मणा वा सत्यस्यैव आचरणम् कर्तव्यम् यतो हि
“सत्यमेव जयते नानृतम्।”
8. मम मित्रम्
जीवने मित्रस्य सर्वाधिक महत्त्वपूर्ण स्थानं भवति। मित्रं विना जीवनं नीरसं जायते। या घनिष्ठता मित्रेण सह भवति, न सा मात्रा, पित्रा, पत्नया वा सह भवति। ममापि मित्रं सुरेशः वर्तते। स अतीव आस्तिकः अस्ति। सः हृष्ट-पुष्ट गौरांगश्च अस्ति। सेवा भाव, अध्ययनशीलता स्नेहशीलता च तस्य विशिष्टाः गुणाः सन्ति । तस्य जनकः चिकित्सकः अस्ति। तस्य जननी अध्यापिका अस्ति। सुरेशः स्व विद्यालयस्य आदर्शः छात्रः अस्ति। स तु सदैव मया सह निवसति। छायेव सदा मम पार्वं न त्यजति। आपत्काले सम्प्राप्तेऽपि माम् त्यक्त्वा न गच्छति। स सर्वेषामपि गुरुजनानां प्रियो वर्तते। तस्य कोमलः स्वभावः आकर्षक व्यक्तित्वं च अस्ति। स पठने, क्रीडने, भाषणे अति प्रवीणः अस्ति।
सदैव मम विषये चिन्तयति। प्रतिदिनं रात्रौ मम कार्याणि चरितं च प्रत्यवेक्षते कानि मे सत्कर्माणि कानि च दुष्कृतानि ? आवाम् परस्परमालपन्तौ अन्योन्यस्य सुखदुःखानि श्रुत्वा तस्य प्रतिकारं चिन्तयावः अनुशासनप्रियता, आत्मसंयमः आज्ञापालनं तस्य गुणाः सन्ति। आवयोः मैत्री दिनस्य परार्धस्य छायेव क्षणिकपरिचयमात्रत, प्रारब्धा सततं वर्धते एव। यदि कदाचित् कार्यवशात् दूरमपि गच्छावः तथापि तस्यां मैत्र्यां न्यूनता न जायते। यतो हि नहि विचलति मैत्री दूरतोऽपि स्थितानाम् । एवंविधं मम मित्रं तु आत्मा एव। आत्मा एवं मां पापान्निवारयति। स सदैव मम प्रेरणास्रोतः वर्तते । अहं तं कदापि विस्मर्तुं न शक्नोमि।
9. गणतन्त्र दिवसः
कस्यापि देशस्य जीवने राष्ट्रिय पर्वाणां विशेष महत्वं भवति । अस्माकं राष्ट्रियपर्वेषु स्वतन्त्रता दिवसः, गणतन्त्र दिवसः चेति उभौ प्रसिद्धौ स्तः। 15 अगस्त’ इति दिवसः अस्माकं स्वतन्त्रता दिवसः’ अस्ति, यतोहि 15 अगस्त 1947 ईसवीये भारतवर्षः स्वतन्त्रः अभवत्। ’26 जनवरी’ अस्माकं ‘गणतन्त्र दिवसस्य’ राष्ट्रियपर्वः अस्ति। अस्मिन् एव शुभ दिवसे 1950 ईसवीये अस्माकं देशं ‘पूर्ण गणतन्त्र-राष्ट्र रूपे’ उद्घोषितोऽभवत्। दिसम्बर मासस्य एक त्रिंशत् दिवसे सन् 1929 ईसवीये रावीनद्याः तटे लाहौर नगरे काँग्रेसस्य अधिवेशनः अभवत्। अस्य अधिवेशनस्य अध्यक्षता पण्डित जवाहरलाल नेहरू महोदयः अकरोत्।
निज अध्यक्षीय भाषणे तेन अभिहितम् यत्-काँग्रेसस्य प्रमुख लक्ष्यः पूर्ण स्वराजस्य प्राप्तिः अस्ति। 1950 तमे वर्षे जनवरीमासस्य षडविंशति तारिकायां भारतीय संविधानस्य उद्घोषणा अभवत्। तस्मिन् अवसरे डॉ० राजेन्द्र प्रसाददेशस्य प्रथम राष्ट्रपतिः नियुक्तः। भारतीय इतिहासे गणतन्त्र दिवसस्य अत्यधिक महत्त्वः अस्ति। अस्मिन् दिवसे जनेषु देशभक्ति भावनायाःप्रेरणार्थः भिन्न-भिन्न राज्य सरकारेषु आनन्दवर्धकाः कार्यक्रमाः भवन्ति।
अस्मिन् दिवसे देशस्य राजधानी दिल्ली नगरे विशेष कार्यक्रमः भवति । विजयचौंक इति स्थाने राष्ट्रपति महोदयः जल, थल, वायु सेनानां सलामी स्वीकरोति। निज-निज प्रान्तानां वेश-भूषया लोक नर्तकाः नृत्य-प्रदर्शनैः निज प्रान्तीय संस्कृतेः परिचयं यच्छन्ति । निष्कर्ष रूपेण वक्तुं शक्यते यत् गणतन्त्र दिवसस्य पर्वः भारतीय नागरिकाणां हृदयेषु अलौकिक-उत्साहस्य आत्मचिन्तनस्य च प्रेरणादायकः उत्सवः अस्ति।
10. समयस्य सदुपयोगः
समयस्य सदुपयोगः जीवनसफलतायाः प्रथम सोपानम्, समुन्नतेः मूलमन्त्रम्, आत्मनिर्माणस्य च परमं साधनम् अस्ति। प्रकृति अपि इयमेव शिक्षा ददाति यत् नहि केनापि समयस्य दुरुपयोगः कर्तव्यः इति। ये जनाः कदापि समयस्य दुरुपयोगं न कुर्वन्ति सदैव कार्यसंलग्ना भवति, ते सुखेनैव तिष्ठन्ति। तादृशाः एव कर्मवीराः सर्वत्र श्रेष्ठपदं लभन्ते।। संसारस्य सर्वेषु वस्तुषु समयः अधिकं महत्त्वपूर्ण अधिकं च मूल्यवद् वस्तु वर्तते। अन्यानि वस्तूनि विनष्टानि पुनरपि लब्धुं शक्यन्ते, परं समयः विनष्टः केनापि उपायेन पुनः परवर्तयितुं न शक्यते । यस्य आयुषः यावान् अंशः निरर्थकंगतः स.गतः एव ।
अतः तथा प्रयतितव्यं यथा एकस्यापि क्षणस्य दुरुपयोगः न स्यात्, सर्वोऽपि च समयः समुचितरूपेण व्यतीतः भवेत् । समयः कस्यापि प्रतीक्षां न करोति। अनेके जनाः निरर्थकं समयं यापयन्ति। ते द्यूते, नृत्यदर्शने, कलहे, वृथा भ्रमणे, पिशुनतायां, चाटुकारितायां च समस्तं समयं नयन्ति।निज जीवनस्य च बहुमूल्यम् अंशं वृथा यापयन्ति। उत्तमाः छात्राः सदा समयस्य महत्त्वं जानन्ति, ते समये उत्तिष्ठन्ति; स्वकार्यं च तत्परतया कुर्वन्ति। अतः ते उन्नतिं सफलतां च प्राप्नुवन्ति। परं प्रमादी छात्रः कदापि उन्नतिं न अधिगच्छति। अतः अस्माभिः आलस्यं विहाय सर्वदैव समयस्य सदुपयोगः कर्तव्यः। एकमपि क्षणं वृथा न यापनीयम् । सत्यमुच्यते-“न कार्यकालमतियातयेत्।”