HBSE 11th Class Sanskrit अपठित अवबोधनम्

Haryana State Board HBSE 11th Class Sanskrit Solutions Apathit Avbodhnam अपठित अवबोधनम् Exercise Questions and Answers.

Haryana Board 11th Class Sanskrit अपठित अवबोधनम्

(1) अपठित गद्यांश के प्रश्नों के उत्तर लिखने से पूर्व उसे दो तीन बार पढ़ें।
(2) गद्यांश की पंक्तियों में यदि शब्दों के अर्थ स्पष्ट न हो तो उन वाक्यों को ध्यान से पढ़ना चाहिए, जिनमें उक्त शब्दों का प्रयोग हुआ है।
(3) अपठित गद्यांश में दिए गए अव्ययों, विभक्तियों तथा विशेषणों को विशेष ध्यान से पढ़ें, क्योंकि इनका अर्थ पता न होने पर उत्तर गलत हो सकता है।
(4) कुछ अपठित गद्यांशों के शीर्षक के विषय में भी प्रश्न पूछा जाता है। इसके लिए विद्यार्थी को उस अंश को पूरा पढ़कर और सोब-मयझकर तार्यार्येत भीर्षक का चयय करना वाहिए।
(5) अपठित गद्यांश में जिस विषय पर चर्चा की गई हो, वही विषय उसका शीर्षक होता है।

अधोलिखितानां अनुच्छेदानाम् पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृत पूर्णवाक्येन लिखत

1. ‘दहेज’ इति शब्दः समाजस्य एकः कलंकः अस्ति। विवाहः जीवनस्य एकः अमूल्यो निधिरस्ति। विवाहस्य जीवनेन सह अभिन्नः सम्बन्धः अस्ति। निर्धनानां तु कन्यकाः बहुकालं अविवाहिताः एव भवन्ति। इयं प्रथा अस्माकं देशे जनसामान्ये न पुरा प्रचलिता आसीत् । मध्यकाले सामन्तयुगे राजानः स्वकन्याभ्यः विवाहेषु अपारधनराशीन् सुखसाधनानि च दातुं प्रारभन्त। अद्य तु इयं प्रथाऽस्माकं समाजे दृढपरम्परया विद्यते। दहेजस्य ब्रह्मराक्षसः स्वबाहुपाशे जनसाधारणं सन्निगृह्य जृभ्यते। एकतः पिता स्वकन्यां महादानमिव वराय यच्छति परतः पुनः रुप्यकाणि अपि दीयन्ते। कन्या अपि! रुप्यकाणि अपि! किमर्थं एतावान् महाराशिः शुल्कं वा कन्यायाः पित्रा वरपित्रे दीयते, अयमेव प्रश्नः?

प्रश्नाः
(क) कस्य जीवनेन सह अभिन्नः सम्बन्धः अस्ति?
(ख) दहेजप्रथा अस्माकं देशे जनसामान्ये कदा न प्रचलिता आसीत?
(ग) के स्वकन्याभ्यः अपारधनराशीन् मध्ययुगे दातुं प्रारभन्त?
(घ) जीवनस्य अमूल्यः निधिः कः अस्ति?
(ङ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।
उत्तराणि:
(क) विवाहस्य जीवनेन सह अभिन्नः सम्बन्धः अस्ति।
(ख) दहेजप्रथा अस्माकं देशे जनसामान्ये पुरा न प्रचलिता आसीत्।
(ग) राजानः स्वकन्याभ्यः अपारधनराशीन् मध्ययुगे दातुं प्रारभन्त।
(घ) विवाहः जीवनस्य अमूल्यः निधिः अस्ति।
(ङ) दहेजस्य कुप्रथा।

HBSE 11th Class Sanskrit अपठित अवबोधनम्

2. महाभारते व्यासेन कथितम् अस्ति यत् धर्मः शाश्वतः। अतः अस्य परित्यागः कस्याञ्चिदपि दशायां भयेन लोभेन वा नं कर्तव्यः। अस्मिन् ग्रन्थे युद्धानां वर्णनानि पठनीयानि सन्ति। यतः महाभारतस्य कथा मुख्यरूपेण अर्जुन-भीम-कर्ण द्रोण-भीष्म-दुर्योधनादिकानां व्यक्तिगतवीरतायाः कथा वर्तते, अतः तत्कालीनेषु युद्धेषु व्यक्तिगत वीरत्वस्य प्राधान्यं लक्ष्यते। . कौरवाणां पाण्डवानां च समरे पार्थः प्रायः एकलः एव वीरतां प्रदर्श्य विजय-लक्ष्मी प्राप्नोति। युद्धभूमौ युध्यमानानां वीराणां पारस्परिकः संवादः यदा कदाचित् पूर्ण व्याख्यान रूपे लभ्यते। अनेन शत्रुपक्षस्य दुष्प्रवृत्तिकारणेन तेषां पराभवस्य दैव्याः योजनायाः आकलनं कर्तुं शक्यते। कौटुम्बिकयुद्धानां वर्णनं भीष्मपर्वणि शल्यपर्वणि च उपलभ्यते।

प्रश्ना:
(क) महाभारते व्यासेन किम् कथितम्?
(ख) अस्मिन् ग्रन्थे केषाम् वर्णनानि पठनीयानि सन्ति?
(ग) कस्य कथा व्यक्तिगतवीरतायाः वर्तते?
(घ) भीष्मपर्वणि शल्यपर्वणि च किं उपलभ्यते?
(ङ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।
उत्तराणि:
(क) महाभारते व्यासेन धर्मः शाश्वतः कथितम्।
(ख) अस्मिन् ग्रन्थे युद्धानां वर्णनानि पठनीयानि सन्ति।
(ग) अर्जुन-भीम-कर्ण-द्रोण-भीष्म-दुर्योधनादिकानां व्यक्तिगतवीरतायाः कथा वर्तते।
(घ) कौटुम्बिकयुद्धानां वर्णनं भीष्मपर्वणि शल्यपर्वणि च उपलभ्यते।
(ङ) महाभारतम्।

3. जीवने अनुशासनस्य महत्त्वपूर्ण स्थानम् अस्ति। अनुशासनं विना जनः जीवने एकं पदम् अपि धर्तुं न सक्षमः वर्तते।गृहे समाजे ग्रामे नगरे देशे विदेशे च सर्वत्र अनुशासन सर्वाणि कार्याणि पूर्णानि भवन्ति । यथा कमलेन जलं शोभते तथैव अनुशासनेन मनुष्यजीवनं शोभते। नियमपालनम् एव अनुशासनम्।यत्र नास्ति अनुशासनं तत्र नास्ति उन्नतिः सुखं च। अतः जीवने प्रथम सोपानम् अनुशासनम् उन्नतेः सुखस्य च। अनुशासनपालनाय दण्डम् आवश्यकम् करणीयम्। दण्डः शास्ति प्रजाः सर्वाः कथितं च।

प्रश्नाः
(क) जीवने कस्य स्थानं महत्त्वपूर्ण वर्तते?
(ख) अनुशासनं विना किं धर्तुं जनः सक्षमः नास्ति?
(ग) कुत्र-कुत्र अनुशासनेन कार्याणि भवन्ति?
(घ) कस्य जीवनम् अनुशासनेन शोभते?
(ङ) कस्मै दण्डम् आवश्यकं भवेत्?
उत्तराणि:
(क) जीवने अनुशासनस्य स्थानं महत्त्वपूर्णं वर्तते।
(ख) अनुशासनं विना जनः जीवने एकं पदम् अपि धर्तुं सक्षमः नास्ति।
(ग) गृहे समाजे ग्रामे नगरे देशे विदेशे च सर्वत्र अनुशासनेन कार्याणि भवन्ति।
(घ) यथा कमलेन जलं शोभते तथैव अनुशासनेन मनुष्यजीवनं शोभते।
(ङ) अनुशासनपालनाय दण्डम् आवश्यकं भवेत्।

4. दीपावली प्राचीनतमं पर्व। अस्मिन् दिने सर्वाधिकम् आकर्षकं मनोरञ्जनं भवति स्फोटकानाम् आस्फोटनम् । विचित्राणि वर्णयुक्तिानि स्फोटकानि आकाशे भूमौ च विविधरूपाणि दर्शयन्ति। जनाः तानि दृष्ट्वा तुष्यन्ति। परन्तु अति सर्वत्र वर्जयेत् । रात्रौ आस्फोटकानां शब्दः कर्णौ बधिरीकरोति वायुमण्डलं च दूषयति। पूर्वं तु जनसंख्या सीमिता आसीत्। वृक्षाः वायुं शुद्धं कुर्वन्ति स्म। इदानीम् जनसंख्या प्रवृद्धा, वृक्षसंख्या क्षीणा। विस्फोटकेभ्यः निर्गतः धूमः रुग्णान् पीडयति, नवजातशिशुभ्यः हानिकरः सिध्यति। दीपावली-समये शरदि आकाशः निर्मलः भवति। सर्वत्र पवित्रता विराजते। अतः वयम् आनन्देन दीपावलीम् मानयेम्, वसुन्धरां भूषितां कुर्याम् न तु दूषिताम् । सर्वेषां जीवन सुखमयं भवेत् । किं तेन उत्सवेन यः कस्मैचित् अपि कष्टकरः भवेत् ? ‘मा कश्चिद् दुःखभाग् भवेत्’ इति अस्माकम् आदर्शः।

प्रश्नाः
(क) केषाम् आस्फोटनम् सर्वेभ्यः आकर्षकम् मनोरञ्जकम् च?
(ख) दीपावली कदा भवति?
(ग) के वायुं शुद्धं कुर्वन्ति?
(घ) अस्माकम् आदर्शः किम्?
(ङ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।
उत्तराणि:
(क) स्फोटकानाम् आस्फोटनम् सर्वेभ्यः आकर्षकम् मनोरञ्जकम् च।
(ख) दीपावली शरदऋतौ भवति।
(ग) वृक्षाः वायुं शुद्धं कुर्वन्ति।
(घ) ‘मा कश्चिद् दुःखभाग् भवेत्’ इति अस्माकम् आदर्शः।
(ङ) दीपावली।

5. बाल्यकाले बालानां सुकुमार हृदये संसर्गस्य प्रभावः अनायासेन भवति। बालः यादृशैः बालैः संगति करिष्यति तादृशः एव सः भविष्यति। सत्संगेन सः सज्जनः भविष्यति कुसंगेन च दुर्जनः। अतो बाल्यकाले ते दुर्जनसंगति रक्षणीयाः। सज्जन संगे च स्थापनीयः। दुर्जन-संगेन सः दुष्टः, दुर्बल शरीरः मन्दबुद्धिश्च भविष्यति पर सत्संगेन सः स्वस्थः, सुबुद्धिः उन्नतिशीलः च भविष्यति। अतः बालानां संगतिः सर्वथा दोषहीनः। गुणिजन संसर्गा च भवितव्या।

प्रश्नाः
(क) बालानां हृदयः कीदृशः भवति?
(ख) सत्संगेन बालः कीदृशः भवति?
(ग) दुर्जन-संगेन बालकः कीदृशः भवति?
(घ) केषां हृदये संसर्गस्य प्रभावः भवति?
(ङ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।
उत्तराणि:
(क) बालानां हृदयः सुकुमारः भवति।
(ख) सत्संगेन बालः सज्जनः भवति।
(ग) दुर्जन-संगेन बालकः दुष्टः, दुर्बल शरीरः मन्दबुद्धिश्च भवति।
(घ) बाल्यकाले बालानां सुकुमार हृदये संसर्गस्य प्रभावः भवति।
(ङ) संसर्गः प्रभावः।

6. दिल्लीनगरं भारतस्य राजधानी वर्तते। एतत् नगरमतीव प्राचीनमैतिहासिकं चास्ति। अस्य पुरातनं नाम इन्द्रप्रस्थः आसीत्। दिल्लीनगरे बहूनि प्राचीनानि नवानि च दर्शनीमानि स्थानानि विद्यन्ते। तथाहि-विरला-मन्दिरम्, संसद्-भवनम्, राष्ट्रपति-भवनम्, राष्ट्रीय-संग्रहालयः, जन्तुशाला कुतुबमीनारश्च। दिल्लीनगरं व्यापारस्य उद्योगानां चापि केन्द्रम् वर्तते। संक्षेपतः इति कथयितुं शक्यते- ‘यत् दिल्लीनगरमतिसमृद्दम् वैभवपूर्णम् चास्ति।

प्रश्नाः
(क) दिल्लीनगरं कस्य राजधानी वर्तते ?
(ख) दिल्लीनगरं केषां केन्द्रम् वर्तते ?
(ग) अस्य पुरातनं नाम किम् आसीत् ?
(घ) संक्षेपतः किं कथयितुं शक्यते?
(ङ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।
उत्तराणि:
(क) दिल्लीनगरं भारतस्य राजधानी वर्तते।
(ख) दिल्लीनगरं व्यापारस्य उद्योगानां केन्द्रम् वर्तते।
(ग) अस्य पुरातनं नाम इन्द्रप्रस्थः आसीत्।
(घ) ‘यत् दिल्लीनगरमतिसमृद्दम् वैभवपूर्णम् चास्ति।’
(ङ) दिल्लीनगरं।

7. राष्ट्रपिता श्रीमोहनदासः कर्मचन्दः गान्धी मम प्रियः नेता अस्ति। तस्य जन्म गुजरातप्रदेशस्य ‘पोरबन्दर’ नामके स्थाने अभवत्। अस्य पिता कर्मचन्दः माता च पुतलीबाई आसीत्। अध्ययनार्थं विदेशं गन्तुकामः सः मातुरादेशप्राप्त्यर्थं प्रतिज्ञात्रयमकरोत् नाहं कदापि मदिरा सेविष्ये, नाहं मांसस्पर्शमपि विधास्यामि, पूर्णरूपेण ब्रह्मचर्यव्रतमाचरिष्यामीति। स्वप्रतिज्ञा पालयन् सः त्रीणि वर्षाणि विधिशास्त्रम् अधीतवान् । स्वदेशम् आगत्य च-मुम्बापुर्यां बैरिस्टरवृत्तिं प्रारभत। शीघ्रमेव दक्षिणाफ्रीकादेशं गत्वा तत्रत्यानां भारतीयानां गौरंगैः कृतां दुर्दशां विलोक्य तेषां समुद्धाराय अहिंसामूलस्य सत्याग्रहस्य उपायस्य प्रयोगम् अकरोत्, तेन च पूर्णां सफलता प्राप्तवान्। तत्र तस्य उपायस्य साफल्यम् अनुभूय स्वदेशोद्धाराय अपि तस्य प्रयोगं कर्तुम् स्वदेशं प्रत्यागच्छत् । तेन अहिंसया भारतदेशः स्वतन्त्रः कृतः।

प्रश्नाः
(क) मोहनदासकर्मचन्दगान्धिनः जन्म गुजरातप्रदेशस्य कस्मिन् स्थाने अभवत् ?
(ख) मोहनदासस्य पिता को आसीत् ?
(ग) विदेशे गान्धी किम त्रीणि वर्षाणि अधीतवान?
(घ) गान्धी अहिंसामूलस्य कस्य उपायस्य प्रयोगं अकरोत् ?
(ङ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।
उत्तराणि:
(क) मोहनदासकर्मचन्दगान्धिनः जन्म गुजरातप्रदेशस्य पोरबन्दर नामके स्थाने अभवत्।
(ख) मोहनदासस्य पिता कर्मचन्दः आसीत्।।
(ग) विदेशे गान्धी विधिशास्त्रम् त्रीणि वर्षाणि अधीतवान्।
(घ) गान्धी अहिंसामूलस्य सत्याग्रहस्य उपायस्य प्रयोगं अकरोत्।
(ङ) राष्ट्रपिता मोहनदासः कर्मचन्दः गान्धी।

HBSE 11th Class Sanskrit अपठित अवबोधनम्

8. संस्कृतगद्यसाहित्यस्य मूलाधारः ऐतिहासिकः तत्र अनेन सह काल्पनिकः अपि अस्ति। यथा ‘कादम्बरी’ बाणभट्टस्य एका काल्पनिककृतिः वर्तते। ‘हर्षचरितम्’ च ऐतिहासिक पृष्ठभूमौ निर्मितम् अस्ति। गद्यसाहित्ये क्लिष्टत्वं भवति । भाषायाः रूपं कृत्रिमम् अधिकं भवति। अस्य कारणमिदं यत् संस्कृतसाहित्यस्य अध्येतारः प्रायेण कुलीनाः मन्यन्ते। गद्यसाहित्यस्य भाषायाम् अलंकारे च पाण्डित्यस्य अपेक्षा बहुला जायते। संस्कृतगद्यसाहित्ये पदे पदे अलंकाराः प्राप्यन्ते। उक्तं च-‘गद्य कवीनां निकषं वदन्ति।’ संस्कृतगद्यसाहित्ये समासशैल्याः दर्शनं बाहुल्येन भवति! तस्मिन् कोमलभावानां विद्यमानत्वमपि अस्ति, परं, तेन साधू ओजोगुणः लभ्यते। कथानकानां मूलानि स्रोतांसि लोककथाः सन्ति। कथितमपि “ओजः समासमूयस्त्वमेतद् गद्यस्य जीवितम्।”

प्रश्नाः
(क) बाणभट्टस्य ग्रन्थयोः नाम लिखत।
(ख) संस्कृतगद्यसाहित्ये पदे पदे के प्राप्यन्ते?
(ग) संस्कृत गद्य साहित्ये कस्या दर्शनम् बाहुल्येनं भवति?
(घ) गद्य साहित्य विषये किम् उक्तम् ?
(ङ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।
उत्तराणि:
(क) बाणभट्टस्य ग्रन्थयोः नाम ‘कादम्बरी’ ‘हर्षचरितम्’ च।
(ख) संस्कृतगद्यसाहित्ये पदे पदे अलंकाराः प्राप्यन्ते।
(ग) संस्कृत गद्य साहित्ये समासशैल्याः दर्शनम् बाहुल्येनं भवति।
(घ) ‘गद्यं कवीनां निकषं वदन्ति’ इति गद्य साहित्ये विषये उक्तम्।
(ङ) गद्य साहित्यस्य महत्त्वम्।

9. सर्वेषु धनेषु विद्याधनम् एव उत्तमंधनं मन्यते । विद्यया एव जनाः जानन्ति यत् किं कर्तव्यम् अस्ति किं च अकर्तव्यम्। अनया एव ज्ञायते यत् किम् उचितम् अस्ति किं च अनुचितम् । विद्याधनेन एव वयं जानीमः यत् कःसन्मार्गः अस्ति कः च कुमार्गः। विद्यया एव मनुष्यः संसारे सम्मान प्राप्नोति । विद्याधनाय वारं वारं नमः।

प्रश्नाः
(क) सर्वेषु धनेषु किम् उत्तमं धनं मन्यते?
(ख) कया एव जनाः कर्तव्यम् अकर्तव्यम् वा जानन्ति?
(ग) कया मनुष्यः संसारे सम्मान प्राप्नोति?
(घ) विद्याधनेन वयं किं जानीमः?
(ङ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।
उत्तराणि:
(क) सर्वेषु धनेषु विद्याधनम् उत्तमं धनं मन्यते।
(ख) विद्यया एवं जनाः कर्तव्यम् अकर्तव्यम् वा जानन्ति।
(ग) विद्यया एव मनुष्यः संसारे सम्मानं प्राप्नोति।
(घ) विद्याधनेन वयं जानीमः यत् कः सन्मार्गः अस्ति कः च कुमार्गः।।
(ङ) विद्याधनम्।

10. रामायणे सप्त भागः सन्ति । इमे ‘काण्डानि’ कथ्यन्ते। एतेषां काण्डानां क्रमशः नामानि वर्तन्ते बालकाण्डम्, अयोध्याकाण्डम्, अरण्यकाण्डम्, किष्किन्धाकाण्डम्, सुन्दरकाण्डम्, युद्धकाण्डम् उत्तरकाण्डं च । बहवः विद्वांसः अस्य उत्तरकाण्ड पूर्णतः बालकाण्डं च अंशतः प्रक्षिप्तं मन्यन्ते। रामायणे चतुर्विंशति सहस्रसंख्याकाः श्लोकाः सन्ति, येषु आधिक्यम् अनुष्टुप् छन्दसः वर्तते। सत्यः कविः उत्तमं महाकाव्यं च कीदृशं भवितव्यम्, एतद् अस्माभिः समायणेनैव ज्ञायते। सामान्यः जनः गृहस्थः भवति, परं गार्हस्थ्यस्य साफल्यमति कठिनं. स्था एव जानन्ति। अस्यैव उच्चलक्ष्यस्य सिद्धिमार्गः वाल्मीकिन दशरथ-राम-लक्ष्मण-सीता-भरतादीनां दिव्य चरित्रैः प्रशस्तः। रामायणम् करुणरसप्रधान महाकाव्यम् । एतत् प्राचीनभारतस्य सभ्यतायाः उज्ज्वलं दर्पणम् अस्ति।

प्रश्नाः
(क) रामायणे कति श्लोकाः सन्ति?
(ख) रामायणे कस्य छन्दस्य आधिक्यम् अस्ति?
(ग) रामायणम् कीदृशम् महाकाव्यम् अस्ति?
(घ) रामायणं कस्याः दर्पणं अस्ति?
(ङ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।
उत्तराणि:
(क) रामायणे चतुर्विंशति सहस्र श्लोकाः सन्ति।
(ख) रामायणे अनुष्टुप् छन्दस्य आधिक्यम् अस्ति।
(ग) रामायणम् करुणरसप्रधानम् महाकाव्यम् अस्ति।
(घ) रामायणं प्राचीनभारतस्य सभ्यतायाः उज्ज्वलं दर्पणम् अस्ति।
(ङ) रामायण महाकाव्यम्।

11. अनुशासनस्य महत्त्वं सर्वत्र अस्ति? अनुशासनं विना गृहे, समाजे, नगरे देशे च कुत्रापि कार्यं न सम्पद्यते। यथा कमलेन जलम् विभाति तथैव अनुशासनेन मानवजीवनम् विभाति।अनुशासनस्य पालनाय दण्ड-विधानस्य व्यवस्था अवश्यमेव करणीया। नियम-पालनेन सुखप्राप्तिः भवति?

प्रश्नाः
(क) केन सुखप्राप्तिः भवति?
(ख) अनुशासनस्य महत्त्वं कुत्र अस्ति?
(ग) जलम् केन विभाति?
(घ) मानवजीवनम् केन विभाति?
(ङ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।
उत्तराणि:
(क) नियम-पालनेन सुखप्राप्तिः भवति।
(ख) अनुशासनस्य महत्त्वं सर्वत्र अस्ति।
(ग) जलम् कमलेन विभाति।
(घ) मानवजीवनम् अनुशासनेन विभाति।
(ङ) अनुशासनम्।

12. एकस्य नृपतेः विद्याहीनाः त्रयः पुत्राः आसन् । नृपतिः सचिवान् आहूय अवदत्-भोः! यूयम् अवगच्छथ यत् ममैते पुत्राः शास्त्र-विमुखाः। एतान् अवलोक्य अहं राज्ये अपि सुखं न अनुभवामि। तद् यूयम् किमपि उपायं कुरुत, येन एतेषां बुद्धेः प्रकाशः भवतु। “तदा सुमति नाम सचिवः अकथयत्-“देव! विष्णुशर्मा नाम महान् विद्वान् ब्राह्मणाय समर्पयतु एतान् । स शीघ्रम् एतान् योग्यान् करिष्यति।” नृपः विष्णुशर्माणम् आहूय न्यवेदयत्-“भो भगवन् ! कृपया मम एतान् पुत्रान शीघ्रमेव योग्यान करिष्यति तदा अहम् युष्मभ्यं महद् द्रव्यं दास्यामि।” विष्णुशर्मा नृपाय अकथयत्-“नाहं द्रव्येण विद्यायाः विक्रयं करोमि किन्तु तव प्रार्थनया षष्णां मासानाम् मध्ये तव पुत्रान् नीतिशास्त्रे योग्यान् करिष्यामि।”

प्रश्नाः
(क) नृपतेः पुत्राः कीदृक् आसन् ?
(ख) नृपतिः कान् आहूय अवदत्?
(ग) कः एतान् योग्यान् करिष्यति?
(घ) नृपः कम् आहूय न्यवेदयत्?
(ङ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।
उत्तराणि:
(क) नृपतेः पुत्राः शास्त्र-विमुखाः आसन्।
(ख) नृपतिः सचिवान् आहूय अवदत्।
(ग) विष्णुशर्मा एतान् योग्यान् करिष्यति।
(घ) नृपः विष्णुशर्माणम् आहूय न्यवेदयत्।
(ङ) विष्णुशर्माया विद्वता।

HBSE 11th Class Sanskrit अपठित अवबोधनम्

13. महाभारतं महर्षिणा वेदव्यासेन विरचितः बहुप्रसिद्धः इतिहासः विद्यते। अस्मिन् ग्रन्थे कौरव-पाण्डवानां महायुद्धं मुख्य-विषय-रूपेण वर्णितमस्ति । मानवजीवनस्य धर्मार्थकाममोक्षरूपाः समस्त-पुरुषार्थाः अत्रः सन्निवेशिताः। इदं काव्यं पञ्चमवेदरूपेण प्रसिद्धमस्ति। अस्य काव्यस्य भीष्मपर्वणि श्रीमद्भगवद्गीता विद्यते ।।

प्रश्नाः
(क) महाभारतस्य रचयिता कोऽस्ति?
(ख) महाभारते मुख्य-विषयरूपेण किं वर्णितमस्ति?
(ग) महाभारतस्य कस्मिन् पर्वणि श्रीमद्भगवद्गीता विद्यते?
(घ) महाभारते मानवजीवनस्य के के पुरुषार्थाः सन्निवेशिताः?
(ङ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।
उत्तराणि:
(क) महाभारतस्य रचयिता वेदव्यासेन अस्ति।
(ख) अस्मिन् ग्रन्थे कौरव-पाण्डवानां महायुद्धं वर्णितमस्ति।
(ग) महाभारतस्य भीष्म पर्वणि श्रीमद्भगवद्गीता विद्यते।
(घ) महाभारते मानवजीवनस्य धर्मार्थकाममोक्षरूपाः पुरुषार्थाः सन्निवेशिताः।
(ङ) महाभारतं।

14. राजा जीमूतवाहनः धर्मपुरे राज्यं अकरोत् । एकदा च कस्याश्चित् स्त्रियाः विलापं अशृणोत्। परिज्ञातं यत् सा गरुडस्य आहाराय स्वपुत्रं आनीतवती। राजा तस्य रक्षायै वचनं दत्तवान् । स स्वशरीरं गरुडाय अर्पितवान् । यदा गरुडः वामभागं खादित्वान् राजा दक्षिण भागमपि प्रस्तुतवान् । तस्य धैर्यं दृष्ट्वा सत्यं ज्ञात्वा गरुडः पश्चात्तापं कृतवान् । सः पातालात् अमृतं आनीय राजानं पुनः जीवितवान् । तद् दिनात् आरभ्य स सर्पभक्षण त्यक्तवान् । धन्यः प्रातः स्मरणीय एषः जीमूतवाहनः।

प्रश्नाः
(क) धर्मपुरे कः राज्यं अकरोत् ?
(ख) जीमूतवाहनः कस्याः विलापं अशृणोत्?
(ग) नृपः स्वशरीरं कस्मै अर्पितवान् ?
(घ) किं दृष्ट्वा ज्ञात्वा गरुडः पश्चात्तापः कृतवान् ?
(ङ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।
उत्तराणि:
(क) धर्मपुरे जीमूतवाहनः राज्यं अकरोत् ।
(ख) जीमूतवाहनः स्त्रियाः विलापं अशृणोत्।
(ग) नृपः स्वशरीरं गरुडाय अर्पितवान्।
(घ) नृपस्य धैर्यं दृष्ट्वा सत्यं ज्ञात्वा गरुडः पश्चात्तापः कृतवान्।
(ङ) जीमूतवाहनस्य माहात्म्य।

15. एकस्मिन् देवालये ताम्रचूड नाम पब्रिाजकः वसति स्म । स च प्रत्यहं देशाटनं कृत्वा जीविका निर्वाहं करोति । सर्वां भिक्षा भिक्षापात्रे निद्याय नागदन्ते अवलम्ब्य रात्रौ स्वपिति। अथ एकदा मूषकाः स्व स्वामिनम् अकथयन्-स्वामिन्! वयम् भिक्षां भक्षयितुं न शक्नुमः। भवान् तत्र आरोढुं समर्थः अतः कृपां कुरु। मूषकः भिक्षापात्रं समारुह्य मूषकेभ्यः भिक्षान्नम् अयच्छत् । परिव्राजकः अचिन्तयत् कथं एतं मारयेयम्। सः जर्जरवंशम् आनीय पुनः पुनः ताडयति। एकदा तस्य मित्रं तत्र आगच्छत् । स पब्रिाजकम् अवदत्-यदि त्वं मद्वचनं न शृणोषि तर्हि अन्यत्र यास्यामि। पब्रिाजकः उवाच मा एवं वद। अहं मूषकेण त्रस्तः किं कुर्याम्?

प्रश्नाः
(क) परिव्राजकः किम् कृत्वा निर्वाहं करोति?
(ख) एकदा मूषकाः कम् अकथयन्?
(ग) सः किम् आनीय पुनः पुनः ताडयति?
(घ) परिव्राजकः किम् अचिन्तयत् ?
(ङ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।
उत्तराणि:
(क) परिव्राजकः देशाटनं कृत्वा जीविका निर्वाहं करोति।
(ख) एकदा मूषकाः स्व स्वामिनम् अकथयन्।
(ग) सः जर्जरवंशम् आनीय पुनः पुनः ताडयति।
(घ) परिव्राजकः अचिन्तयत् यत् कथं एतं मारयेयम्।
(ङ) परिव्राजकः कथा।

अभ्यासार्थ महत्त्वपूर्ण गवाशानि

अधोलिखितानां अनुच्छेदानाम् पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृत पूर्णवाक्येन लिखत

1. वयं भारतवासिनः स्मः। अस्माकं मातृभूमिः, अस्माकं जन्मभूमिः इदमेव भारतम् । वयं स्वप्रियभारतवर्षे प्राणेभ्योऽप्यधिकं स्निह्यामः। इदं भारतं महत् । अस्य संस्कृतिः महती। इयं सा देवभूमिः, यस्यां जन्मग्रहणाय देवाः अपि उत्सुकाः भवन्ति। अस्याः समक्षं स्वर्गोऽपि नगण्यः अस्ति। उक्तमपि “जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।” माता मातृभूमिश्च स्वर्गलोकादपि गरीयसी। विश्वस्य सर्वेषु एव देशेषु भारतवर्षस्य महत्त्वं सर्वाधिकं वर्तते, यतः अस्माकं भारतं निजानेकरूपतायै विश्वविख्यातम् अस्ति। अत्र प्रकृतिः स्वक्रीडां करोति। अत्र सर्वेषामेव षष्णाम् ऋतूनां क्रमो जायते। वसन्त-प्रीष्म-वर्षा-शरद्-हेमन्त-शिशिराः सर्वे एव ऋतवः क्रमेण आगच्छन्ति। इयं धरा प्रकृतेः लीलास्थली। प्रकृतेः मनोरमं रम्यं च स्थलमस्ति।

प्रश्नाः
(क) अस्माकम् देशस्य किं नाम?
(ख) अत्र केषां क्रमो जायते?
(ग) इयं धरा प्रकृतेः कीदृक् स्थलमस्ति?
(घ) षड् ऋतूणाम् नामानि लिखत।।
(ङ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।

2. अस्मिन् असारे संसारे मानवजीवनं द्वयोः चक्रयोः भ्रमति। इमे द्वे चक्रे स्तः-भाग्यं पौरुषं च। कस्यचन जीवने भाग्यस्य प्राबल्यं भवति स च अस्य वरदानेन किञ्चिदपि कठोरं श्रमं विना जीवनस्य आनन्दं गृह्णाति सततम् । एतद् वैपरीत्येन . कस्यचित् जीवने पौरुषमेव लिखितं भवति। असौ अनवरतं श्रमते, परं स निजोद्यामानुकूलत्वेन फलं न लभते। एतत् सर्वं विधेः विधानम् । केचित् जनाः इदं पूर्वजन्मकृतकर्मणाां फलं मन्यन्ते, केचिच्च एतत् स्वकृतवर्तमानकर्मणां प्रतिफलं स्वीकुर्वन्ति । वस्तुतः भाग्यपुरुषार्थयोः उभयोः एतयोः अत्यद्भुतः संगमः वर्तते। केषांचित् मनुष्याणां विचारः अस्ति यत् एतयोः उभयोः सम्बन्धः मैत्र्याः अस्ति। एतत् प्रतिकूलत्वेन अन्ये नराः इमं सम्बन्धं मित्रतायाः न मत्वा शत्रुतायाः व्याहरन्ति।

प्रश्नाः
(क) द्वे चक्रे के स्तः?
(ख) एतत् सर्वं कस्य विधानम्?
(ग) भाग्यपुरुषार्थयोः कीदृक् संगमः वर्तते?
(घ) केषांचित मनुष्याणां किं विचारः अस्ति?
(ङ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।

3. एकस्मिन् वने एकः विशालः वृक्षः आसीत् । तस्मिन् बहवः खगाः वसन्ति स्म। एकदा ते अतीव बुभुक्षिताः आसन्। अतः भोजनं खादितुम् इतस्ततः भ्रमन्ति स्म। ते दूरं दूरं गच्छन्ति स्म। अन्ते च एकस्मिन् क्षेत्रे तण्डुलकणाम् अपश्यन् । ते तत्र गत्वा प्रसन्नतया तण्डुलान् खादन्ति स्म परन्तु जालेन बद्धाः अभवन् । अधुना किं करणीयम् इति चिन्तयित्वा ते सर्वे जालेन सह एव एकं स्वमित्रम् उपागच्छन् । तेषां मित्रम् एकः मूषकः आसीत्। सः जालं दन्तैः अकर्तयत् । अन्ते सर्वे स्वतन्त्राः भूत्वा अनृत्यन् अगायन् च-सुखं तु एकतायाम् एव विद्यते।

प्रश्नाः
(क) तस्मिन् वने के वसन्ति स्म?
(ख) खगाः भोजनं खादितुम् कुत्र भ्रमन्ति स्म?
(ग) खगानां मित्रम् कः आसीत् ?
(घ) खगाः एकस्मिन् क्षेत्रे कान् अपश्यन्।
(ङ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।

4. एकदा एकः कर्तव्यपरायणः नगररक्षकः इतस्ततः भ्रमन् एकम् अशीतिवर्षीयं महापुरुषम् अपश्यत्। सः आम्रवृक्षस्य आरोपणे तल्लीनः आसीत् । इदं दृष्ट्वा नगररक्षकः तं महापुरुषम् अवदत्-अवलोकनेन प्रतीयते यत् यदा. एषः वृक्षः फलिष्यति तदा . .भवान् जीवितः न भविष्यति। अतः किमर्थं वृथा परिश्रमं कुर्वन्ति भवन्तः? महापुरुषः हसित्वा अवदत्-पश्यन्तु एतान् फलयुक्तान् वृक्षान् । एतेषाम् आरोपणं मया न कृतं परं फलानि अन्ये खादिष्यन्ति, अहं पुनः प्रसन्नः भविष्यामि। महापुरुषस्य वचनं श्रुत्वा तं च नमस्कृत्य नगररक्षकः उक्तवान्- अनुकरणीया एव सज्जनानां सज्जनता।

प्रश्नाः
(क) नगररक्षकः कम् अपश्यत्?
(ख) महापुरुषः किम् कर्तुम् तल्लीनः आसीत्?
(ग) सज्जनानाम् सज्जनता कीदृशी भवति?
(घ) कः अवदत्-“पश्यन्तु एतान फलयुक्तान वृक्षान्?”
(ङ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।

HBSE 11th Class Sanskrit अपठित अवबोधनम्

5. राज्ञः शुद्धोदनस्य सिद्धार्थनामा सुशीलः सदृत्तश्च सुतः आसीत्। शैशवात् एव तस्मै राज्यभोगाः न रोचन्ते तदा पिता तस्य सांसारिक वृत्ति उद्भावयितुं तस्य विवाहं यशोधरानामिकया राजकन्यया सह कृतवान् । तस्यां राहुलनामा पुत्रोऽपि सञ्जातः। सांसारिक दुःखेभ्यः अनभिज्ञः सिद्धार्थः एकदा रथेन वनविहाराय निर्गतः। एकां शवयात्रां विलोक्य सारथिमपृच्छत् हे सूत। अयं जनसम्मदः किं नीत्वा कुत्र गच्छति? सूत उवाच कुमार एते जनाः एकं मृतं जनं दाहसंस्काराय श्मशानभूमिं गच्छन्ति।

प्रश्नाः
(क) शुद्धोदनस्य कीदृशः पुत्रः आसीत्?
(ख) तस्य विवाहः कया सह सञ्जातः?
(ग) यशोधरायाः कः नाम सुतः सञ्जातः?
(घ) सूतः कुमारं किम् उवाच?
(ङ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।

6. महाकवेः बाणभट्टस्य पूर्वजाः विश्रुताः विद्वांसः आसन सोनतीरवर्तिनि प्रीतिकूटनगरे च वसन्ति स्म। बाणस्य जन्म वात्स्यायनगोत्रोत्पन्नस्य चित्रभानोः गृहे अभवत् । कुसंगतौ पतित्वा बाणः पूर्वं तु अकर्मण्यः व्यचरत्, परं प्रकृतिम् आपन्ने अति महान् विद्वान् सम्राजः हर्षवर्धनस्य च सभारत्नमभूत् । अस्य मातुर्नाम राज्यदेवी आसीत्। बाल्यकाले एव अस्य पितरौ दिवंगतौ। परिभ्रमन् अयम् अनेकेषां विदुषां ब्राह्मणानां च सम्पर्क प्राप्तवान् । अस्य आचरणेन प्रथमतः हर्षवर्धनः असन्तुष्ट आसीत्। यदा माता श्रीकृष्णः बाणस्य साहाय्यम् अकरोत, तदा हर्षः सन्तुष्टः बाण च स्वराज्यसभायाम् आकारयत्। हर्षवर्धनः पुनरापे एतस्मै उचितं सम्मानं न अयच्छत् । शनैः शनैः बाणेन निज पाण्डित्य बलेन हर्षवर्धनः तोषितः।

प्रश्नाः
(क) बाणभट्टस्य मातुर्नाम किम् आसीत्?
(ख) बाणभट्टस्य पूर्वजाः कस्मिन् नगरे वसन्ति स्म?
(ग) अस्य आचरणेन प्रथमतः कः असन्तुष्टः आसीत्?
(घ) बाणभट्टस्य साहाय्यम् कः अकरोत्?
(ङ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।

7. गंगा सर्वासां नदीनां श्रेष्ठा अस्ति। सा लोकत्रयस्य कल्याणकारिणी अस्ति। सा भौतिक सुख दृष्ट्या आध्यात्मिक सुख दृष्ट्या कल्याणप्रदा। यं गंगां पूर्णरूपेण समर्पितो-भवति, तस्य जीवनं धन्यं भवति। इह संसारे यः जनः राज्ञा भगीरथेन आनीतां भगवती गंगां सदा वन्दते, स एव शोभनः चतुरः कथ्यते। यः जनः आदरपूर्वकं जहनुतनयां मनसा ध्यायति, स एव सम्यक् तपस्वी भवति। यः गंगायाः नामानि गुणान् च सदा स्मरति, स एव श्रेष्ठः पुरुषः कथ्यते। यस्य जनस्य देवनी प्रति सेवाभावना अस्ति, यथार्थरूपेण स एव कर्मयोगी अस्ति, स एव सर्वेषां स्वामी भवति।

प्रश्नाः
(क) सर्वासां नदीनां श्रेष्ठा नदी का अस्ति?
(ख) इह संसारे गंगां कः आनीतवान् ?
(ग) यः आदरपूर्वकं जहनुतनयां ध्यायति सः किं भवति?
(घ) यस्य देवनदी प्रति सेवाभावना अस्ति, स किम् अस्ति?
(ङ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।

8. सत्संगतिः धियः जाड्यं हरति । वाचि सत्यं सिञ्चति। मानोन्नतिं करोति। पापम् अपाकरोति। मनः प्रसादयति। सर्वत्र यशः तनोति। कथय, मनुष्याणां कृते सत्संगतिः किं न करोति, अर्थात् सर्वेषामेव उत्तमगुणानां विकासं करोति। ईदृशः अस्ति सत्संगतेः महिमा। अयम् एकः स्वाभाविकः अभिप्रायोऽस्ति यत् मनुष्यस्य संगतिः यादृक्प्रवृत्तिधारकेण सह भवति, स तादृश एव भवति । यदि तस्य उत्थानम् उपवेशनं दुष्टैः सह, तदा सोऽपि भविष्यति। परं सज्जनैः साकं संसर्गात् स एव जनः सुजनः भवितुं शक्नोति। प्रभावस्तु अवश्यमेव पतति अन्योऽन्ययोः, एतत् तु स्वीकरणीयमेव जायिष्यते। यदा वयं संगतेः प्रभावं जड़पदार्थेषु पश्यामः, तदा चेतनः प्राणी कथं न प्रभवितुं क्षमते।

प्रश्नाः
(क) सत्संगतिः केषां विकासं करोति?
(ख) सज्जनैः संगतिं जनः कीदृशः भवितुं शक्नोति?
(ग) संगतेः प्रभावः वयं कं पदार्थेषु पश्यामः?
(घ) सत्संगतिः केषां विकासं करोति?
(ङ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।

9. गुरुनानकः स्वशिष्यैः सह सर्वदा देश भ्रमणं करोति स्म। तदुपदेशान् श्रोतुं जनाः एकत्रिताः भवन्ति स्म। एकदा स एकं ग्रामं गतवान्। ग्रामवासिनः महता उत्साहेन सशिष्यस्य गुरुनानकस्य स्वागतम् आतिथ्यं च कृतवन्तः। परमश्रद्धया तस्य उपदेशं श्रुत्वा ते आनन्दिताः जाताः। तेषां हृदयेषु शान्तिः मुखेषु च कान्तिः अराजेताम् । एवं कतिपय दिनानि व्यतीतानि । गुरुनानकः ततः प्रस्थातुम् ऐच्छत् । सर्वे ग्राम वासिनः अप्रार्थयन्-भवान् अन्यत्र मा गच्छन्तु। अत्रैव वसतु।

प्रश्नाः
(क) देश भ्रमणं कः करोति स्म?
(ख) गुरुनानकस्य आतिथ्यं स्वागतञ्च के कृतवन्तः?
(ग) ग्रामवासिनः कम् उषितुम् अप्रार्थयन् ?
(घ) ग्रामवासिनः उत्साहेन किं कृतवन्तः?
(ङ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।

10. आदिकाव्यं रामायणं मम प्रियपुस्तकम् अस्ति। भगवतो मर्यादा पुरुषोत्तमस्य श्रीरामचन्द्रस्य पावनं चरित्रं रामायणे प्राप्यते। अस्य आदिकाव्यस्य लेखकः महर्षिः वाल्मीकिः आसीत् । तस्य रचना ‘आदिकाव्यम्’ इति वेदविदुषां मतम्। अतएव वाल्मीकिः आसीत् आदिकविः। रामायणम् अनुष्टुप् छन्दसि लिखितम् । रामायणे श्लोकसंख्या चतुर्विंशतिसहस्रं वर्तते, अस्मात् कारणात् रामायणं महाकाव्यं ‘चतुर्विंशति-साहस्री-संहिता’ इत्युच्यते विद्वद्भिः। देवर्षिनारदस्य प्रेरणया ब्रह्मणः वचनेन च आदिकविना इदं काव्यं विरचितम् । रामायणे ‘बाल-अयोध्या-अरण्य-किष्किन्धा-सुन्दर-युद्ध-उत्तर’ इति सप्तकाण्डानि विद्यन्ते। रामायणे श्रीरामचन्द्रस्य नारायणावताररूपेण वर्णनं समुपलभ्यते।।

प्रश्नाः
(क) रामायणे कस्य वर्णनं प्राप्यते?
(ख) रामायणे श्रीरामस्य कीदृशं वर्णनं प्राप्यते?
(ग) रामायणे कति काण्डानि विद्यन्ते?
(घ) रामायणस्य सप्तकाण्डानां नामानि लिखत।
(ङ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।

11. भारतवर्षे षट् ऋतवः भवन्ति। तेषु वसन्तः ऋतुराजः कथ्यते। चैत्रे वैशाखे च मासे वसन्तः ऋतुः भवति। वसन्ते द्वौ प्रमुखौ उत्सवौस्तः-वसन्तोत्सवः, होलिकोत्सवश्व । वसन्ते सर्वत्र प्रमोदः भवति। नराः नार्यः युवानः वृद्धाः च गायन्ति नृत्यन्ति। आम्रवृक्षे कोकिलस्य मधुरध्वनिः सर्वान् आकर्षति। पादपेषु नानावर्णानि पुष्पाणि रम्यं वातावरणं जनयन्ति। सर्वत्र प्रकृतिः विविध वर्णेः कुसुमैः मनोरमपरिधानैः इव दृश्यते। वयं प्रकृतिं नमामः यस्याः रमणीया रचना अलौकिकी अद्भुता च वर्तते।

प्रश्नाः
(क) भारतवर्षे कति ऋतवः भवन्ति?
(ख) ऋतुराजः कः कथ्यते?
(ग) वसन्ते को प्रमुखौ उत्सवौस्तः?
(घ) कस्य ध्वनिः सर्वान् आकर्षति?
(ङ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।

Leave a Comment

Your email address will not be published. Required fields are marked *