Haryana State Board HBSE 10th Class Sanskrit Solutions Apathit Avabodhanam अपठित-अवबोधनम् Exercise Questions and Answers.
Haryana Board 10th Class Sanskrit अपठित-अवबोधनम्
1. प्रदत्तगद्यांशं पठित्वा अधोलिखित प्रश्नानाम् उत्तराणि लिखत
द्वापरयुगे हस्तिनापुरे शान्तनुः नाम नृपतिः अभवत्। शान्तनोः पुत्रस्य नाम देवव्रतः आसीत्। गंगायाः पुत्रत्वात् तस्य नाम ‘गांगेय’ इत्यपि आसीत्। सः पराक्रमी आसीत्। सः बालब्रह्मचारी, पितृभक्तश्च आसीत्।
(क) शान्तनुः कुत्र राजा आसीत् ?
(ख) देवव्रतः कस्य पुत्रः आसीत् ?
(ग) देवव्रतः कीदृशः आसीत् ?
(घ) पितृभक्तः कः आसीत् ?
(ङ) ‘इत्यपि’ पदे सन्धिच्छेदं कुरुत। (H.B. 2014-A)
उत्तराणि
(क) शान्तनुः हस्तिनापुरे राजा आसीत्।
(ख) देवव्रतः शान्तनोः पुत्रः आसीत्।
(ग) देवव्रतः पराक्रमी, बालब्रह्मचारी, पितृभक्तश्च आसीत्।
(घ) पितृभक्तः देवव्रतः आसीत्।
(ङ) ‘इत्यपि’ = इति + अपि।
2. प्रदत्तगद्यांशं पठित्वा अधोलिखित प्रश्नानाम् उत्तराणि लिखत
एकस्मिन् वने एकः वृक्षः आसीत्। वृक्षे एकः खगः अवसत्। वृक्षे स सुन्दरं नीडम् अरचयत्। तत्र दम्पती उषित्वा शावकानां रक्षाम् अकुरुताम्। एकदा महती वर्षा अभवत्। तदा तत्र एकः वानरः आगच्छत्। खगः तम् अवदत्। त्वं कथं न नीडं रचयसि ? वानरः क्रुद्ध्वा नीडम् अत्रोटयत्।
(क) वृक्षः कुत्र आसीत् ?
(ख) खगः कम् अवदत् ?
(ग) वानरः क्रुद्ध्वा किम् अकरोत् ?
(घ) दम्पती केषां रक्षाम् अकुरुताम् ?
(ङ) ‘आसीत्’ क्रिया पदे क: लकारः ? (H.B. 2014-B)
उत्तराणि
(क) वृक्षः वने आसीत्।
(ख) खगः वानरम् अवदत्।
(ग) वानरः क्रुद्ध्वा नीडम् अत्रोटयत्।
(घ) दम्पती उषित्वा शावकानां रक्षाम् अकुरुताम्।
(ङ) ‘आसीत्’ क्रिया पदे कः लकारः। ।
3. प्रदत्तगद्यांशं पठित्वा अधोलिखितप्रश्नानाम् उत्तराणि लिखत
आचार्यः गुरुः भवति। गुरवः पूज्याः भवन्ति। संसारे गुरून् विना किमपि कार्यं न सिध्यति। अतः गुरवः महत्त्वपूर्णाः सन्ति। गुरवः शिष्याणां हिताय यत् यत् शुभं कथयन्ति तत् तत् वाक्यमेव उपदेशो भवति। अतः आचार्य देवो भव।
(क) गुरवः कीदृशाः भवन्ति ?
(ख) गुरून् विना किं न सिध्यति ?
(ग) गुरवः केषां हिताय उपदिशन्ति ?
(घ) ‘किमपि’ इति पदे सन्धिच्छेदं कुरुत।
(ङ) ‘विना’ योगे का विभक्तिः भवति ? (H.B. 2014-C)
उत्तराणि:
(क) गुरवः पूज्याः भवन्ति।
(ख) गुरून् विना किमपि कार्यं न सिध्यति।
(ग) गुरवः शिष्याणां हिताय उपदिशन्ति।
(घ) ‘किमपि’ = किम् + अपि।
(ङ) ‘विना’ योगे द्वितीया/तृतीया/पञ्चमी विभक्तिः भवति।
4. अधोलिखितम्-अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखतअहम् एकः छिन्नद्रुमः अस्मि। ह्यः वने एक: नरः आगच्छत्। सः काष्ठाय मम शरीरम् अच्छिनत्। छेदनेन मे शरीरे अनेके व्रणाः जाताः । छुरिकायाः प्रहारम् शरीरात् अश्रुरूपाः जलबिन्दवः अपतन्। अकथनीया मम पीड़ा। हृदयं विदीर्णं जातम्। अश्रुभिः कण्ठः अवरुद्धः । मम अन्तकालः समीपे एव तिष्ठति। काष्ठानि एकत्रीकृत्य सः तु अगच्छत्। परं कोऽस्ति अत्र व्यथा कथाश्रवणाय ?
प्रश्नाः
(i) एषः अनुच्छेदः कस्य आत्मकथां कथयति।
(ii) कदा वने एकः नरः आगच्छत्।।
(iii) सः नरः किमर्थं वृक्षस्य शरीरं अच्छिनत् ?
(iv) छेदनेन वृक्षस्य शरीरे के जाताः ?
(v) वृक्षस्य अश्रुभिः किम् अभवत् ?
उत्तराणि:
(i) एषः अनुच्छेदः एकस्य छिन्नस्य द्रुमस्य आत्मकथां कथयति।
(ii) ह्यः वने एक: नरः आगच्छत् ।
(iii) सः नरः काष्ठाय वृक्षस्य शरीरम् अच्छिनत्।
(iv) छेदनेन वृक्षस्य शरीरे व्रणाः जाताः।।
(v) वृक्षस्य अश्रुभिः जलबिन्दवः अपतन्।
5. अधोलिखितम्-अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखत
प्रकृतिः मनुष्यस्य उपकारिणी। मनुष्यैः सह तस्याः शाश्वतः सम्बन्धः। सा विविधरूपेषु अस्मिन् जगति आत्मानं प्रकटयति। विविधाः ओषधयः सकलानि खनिजानि च प्रकृतेः एव शोभा। सा तु नित्यं एव एतैः साधनैः सर्वेषाम् उपकारं करोति, परम् अधन्यः अयं जनः कृतज्ञतां विहाय असाधुसेवितं पथं गच्छति, विविधानि कष्टानि च अनुभवति।
प्रश्नाः-
(i) मनुष्यैः सह कस्याः शाश्वतः सम्बन्धः ?
(ii) प्रकृतिः विविधरूपेषु कुत्र आत्मानं प्रकटयति ?
(iii) प्रकृतेः का शोभा अस्ति ?
(iv) प्रकृति कस्य उपकारिणी अस्ति ?
(v) अधन्यः अयं जनः कृतज्ञतां विहाय किं करोति ?
उत्तराणि:
(i) मनुष्यैः सह प्रकृत्याः शाश्वतः सम्बन्धः ।
(ii) प्रकृतिः विविधरूपेषु जगति आत्मानं प्रकटयति।
(iii) विविधाः ओषधयः सकलानि खनिजानि च प्रकृतेः शोभा अस्ति।
(iv) प्रकृतिः मनुष्यस्य उपकारिणी अस्ति।
(v) अधन्यः अयं जनः कृतज्ञतां विहाय असाधुसेवितं पथं गच्छति।
6. अधोलिखितम्-अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखत
अस्माकं देशे अनेकानि राज्यानि सन्ति। तेषु हरियाणा राज्य अति लघुराज्यं वर्तते। अस्य उदयः 1966 तमे वर्षे नवम्बर मासस्य प्रथमे दिनाङ्के अभवत्। हरियाणाप्रदेश: वीराणां भूमिः कथ्यते। अस्य कुरुक्षेत्रे नगरे महाभारतस्य युद्धम् अभवत्। श्रीकृष्ण अर्जुनाय गीतायाः उपदेशम् अत्रैव अयच्छत्। इदं राज्यं कृषिप्रधान राज्यम् अस्ति। अस्य भूमिः अति उपजाऊ: अस्ति। अस्य कृषकाः अतीव परिश्रमं कुर्वन्ति। जनाः साधारणं जीवनं व्यतीतं कुर्वन्ति।
(क) हरियाणा राज्यं कीदृक् राज्यं वर्तते ?
(ख) हरियाणा केषां भूमिः कथ्यते ?
(ग) अस्य कृषकाः किं कुर्वन्ति ?
(घ) अस्य कुरुक्षेत्रनगरे किम् अभवत् ?
(ङ) जनाः कीदृशं जीवन व्यतीतं कुर्वन्ति ?
उत्तरम्
(क) हरियाणा राज्यं लघुराज्यं राज्यं वर्तते।
(ख) हरियाणा वीराणां भूमिः कथ्यते।
(ग) अस्य कृषकाः अतीव परिश्रमं कुर्वन्ति।
(घ) अस्य कुरुक्षेत्रनगरे महाभारतस्य युद्धम् अभवत्।
(ङ) जनाः साधारणं जीवन व्यतीतं कुर्वन्ति।
7. अधोलिखितम्-अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखत
निरपराधानां प्राणिनां हिंसनं न कर्तव्यम्, इत्यहिंसायाः भावः। भारतवर्षेऽहिंसायाः स्थानं महत्त्वपूर्णमस्ति। अहिंसाधर्मस्यैव पालनेन भगवतो बुद्धस्य गणना दशावतारेषु क्रियते। भगवान् महावीरोऽपि अहिंसायाः पोषक: आसीत्। अहिंसायाः पालनं मनसा, वाचा, कर्मणा च कर्तव्यम्। निरपराधस्य कस्यापि जन्तोः हिंसनं नूनं निन्दनीयम्।
प्रश्ना:-
(i) अहिंसायाः पालनं कथं कर्तव्यम् ?
(ii) भारतवर्षे कस्याः स्थानं महत्त्वपूर्णमस्ति ?
(iii) अहिंसाधर्मस्यैव पालनेन कस्य गणना दशावतारेषु क्रियते ?
(iv) क: अहिंसायाः पोषकः आसीत् ?
(v) केषां हिंसनं न कर्तव्यम् ?
उत्तराणि
(i) अहिंसायाः पालनं मनसा, वाचा, कर्मणा च कर्तव्यम्।
(ii) भारतवर्षेऽहिंसायाः स्थानं महत्त्वपूर्णमस्ति।
(iii) अहिंसाधर्मस्यैव पालनेन भगवंतो बुद्धस्य गणना दशावतारेषु क्रियते।
(iv) भगवान् महावीरोऽपि अहिंसायाः पोषकः आसीत्।
(v) निरपराधानां प्राणिनां हिंसनं न कर्तव्यम्।
8. अधोलिखितम्-अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखत
अद्य भोजनालये पाचकः बहुव्यञ्जनानि पचति। चुल्यामग्निः सम्यक् न ज्वलति। धूमोऽपि मन्दं मन्दं बहि: चारों खण्डों की परीक्षोपयोगी सामग्री नि:सरति । स्थाल्यां बहुमोदकाः सन्ति। कटाहे तप्तं घृतं वर्तते, जलपात्रेषु जलं न दृश्यते। पीठेषु मनुष्या: नोपविष्टाः सन्ति। काष्ठधारः अस्ति, तस्योपरि दधिपात्रं विद्यते।
प्रश्ना:-
(i) स्थाल्यां के सन्ति ?
(ii) कुत्र जलं न दृश्यते ?
(iii) कटाहे कीदृशं घृतं वर्तते ?
(iv) अद्य भोजनालये पाचक: कानि पचति ?
(v) धूमोऽपि कथं बहि: निःसरति ?
उत्तराणि:
(i) स्थाल्यां बहुमोदकाः सन्ति
(ii) जलपात्रेषु जलं न दृश्यते।
(iii) कटाहे तप्तं घृतं वर्तते।।
(iv) अद्य भोजनालये पाचक: बहुव्यञ्जनानि पचति।
(v) धूमोऽपि मन्दं मन्दं बहिः निःसरति।
9. अधोलिखितम्-अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखत
स्वस्थं पर्यावरणं अस्माकं जीवनस्य आधारोऽस्ति पर्यावरणस्य आधारः पुष्पिता: पल्लविताः वृक्षाः भवन्ति। वृक्षाः ऑक्सीजन प्रदाय पर्यावरणं स्वस्थं कुर्वन्ति। वृक्षाः पर्यावरणं संतुलितं कुर्वन्ति। ते यथाकालम् मेघानाम् वर्षणे सहायकाः भवन्ति। वृक्षाः पुष्पाणां फलानाम् औषधीनाम् च आगाराः सन्ति। वृक्षपादपानाम् हरीतिमा, तेषां पुष्पाणाम् शोभा, पक्षिणाम् कलरवः च शुष्कहृदयानपि रसविभोरान् कुर्वन्ति।
प्रश्ना:
(i) कस्य आधारः वृक्षाः भवन्ति ?
(ii) वृक्षाः किं प्रदाय पर्यावरणं स्वस्थं कुर्वन्ति ?
(iii) वृक्षाः यथाकालं केषां वर्षणे सहायकाः भवन्ति ?
(iv) वृक्षाः कस्य आगाराः सन्ति ?
(v) वृक्षाणां शोभाः पक्षिणां कलरवः च किं कुर्वन्ति ?
उत्तराणि
(i) पर्यावरणस्य आधारः वृक्षाः भवन्ति।
(ii) वृक्षाः आक्सीजनं प्रदाय पर्यावरणं स्वस्थं कुर्वन्ति।
(iii) वृक्षाः यथाकालं मेघानां वर्षणे सहायकाः भवन्ति।
(iv) वृक्षाः पुष्पाणां फलानाम् औषधीनाम् च आगाराः सन्ति।
(v) वृक्षाणां शोभाः पक्षिणां कलरवः च शुष्कहृदयान् अपि रसविभोरान् कुर्वन्ति।
10. अधोलिखितम्-अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखतदक्षिणभारते सागरमध्ये एकं लघुद्वीपं वर्तते। तस्मिन् द्वीपे सागरतरङ्गैः क्षाल्यमानं प्राचीनं नगरं कन्याकुमारी इति अस्ति। एषा कन्याकुमारी त्रयाणां सागराणां सङ्गमस्थली। समुद्रजले प्रतिबिम्बितं सूर्योदयस्य दृश्यम् अद्भुतम् एव। सूर्यस्य क्रमश: अरुणा पीता धवला च शोभा दर्शकान् मन्त्रमुग्धान् करोति। सागरस्य लहरीभिः क्षिप्तानां चित्र-विचित्रवर्णानां शुक्तीनां वृष्टिः इव भवति।
प्रश्नाः
(i) सागरमध्ये एकं लघुद्वीपं कुत्र वर्तते ?
(ii) तस्मिन् द्वीपे सागरतरङ्गः क्षाल्यमानं किम् कन्याकुमारी इति अस्ति ?
(iii) एषा कन्याकुमारी केषाम् सइगमस्थली अस्ति ?
(iv) समुद्रजले प्रतिबिम्बितं सूर्योदयस्य दृश्यम् कीदृशं भवति ?
(v) सूर्यस्य कीदृशी शोभा दर्शकान् मन्त्रमुग्धान् करोति ?
उत्तराणि:
(i) सागरमध्ये एकं लघुद्वीपं दक्षिण भारते वर्तते।।
(ii) तस्मिन् द्वीपे सागरतरङ्गैः क्षाल्यमानं प्राचीनं नगरं कन्याकुमारी इति अस्ति।
(iii) एषा कन्याकुमारी त्रयाणां सागराणां सइगमस्थली अस्ति।
(iv) समुद्रजले प्रतिबिम्बितं सूर्योदयस्य दृश्यम् अद्भुतं भवति।
(v) सूर्यस्य क्रमशः अरुणा पीता धवला च शोभा दर्शकान् मन्त्रमुग्धान् करोति।
11. अधोलिखितम्-अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखत-
एकस्मिन् देवालये ताम्रचूडः नाम परिव्राजक: वसति स्म। स च प्रत्यहं भिक्षाटनं कृत्वा जीविकानिर्वाहं करोति। सर्वां भिक्षां भिक्षापात्रे निधाय नागदन्ते अवलम्ब्य रात्रौ स्वपिति। अथ एकदा मूषकाः स्वस्वामिनम् अकथयन्-स्वामिन्। वयं भिक्षां भक्षयतुं न शक्नुमः। भवान् तत्र आरोढुं समर्थः। अतः कृपां कुरु। मूषक-स्वामी भिक्षापात्रं समारुह्य मूषकेभ्यः भिक्षान्नम् अयच्छत्। परिव्राजकः अचिन्तयत् – कथमेनं मारयेयम्। सः जर्जरवंशम् आनीय पुनः पुनः ताडयति। एकदा तस्य मित्रं तत्र आगच्छत् । स परिव्राजकम् अवदत् — यदि त्वं मद्वचनं न शृणोषि तर्हि अन्यत्र यास्यामि । परिव्राजक: उवाच् मा एवं वद। अहं मूषकेण त्रस्तः किं कुर्याम् ?
प्रश्ना:
(i) ताम्रचूड: नाम परिव्राजकः कुत्र वसति स्म ?
(ii) ताम्रचूड: सर्वां भिक्षां किं कृत्वा रात्रौ स्वपिति ?
(iii) मूषक-स्वामी किं कृत्वा मूषकेभ्यः भिक्षान्नम् अयच्छत् ?
(iv) परिव्राजक: किं आनीय पुनः पुनः ताडयति ?
(v) परिव्राजक: किमर्थं मित्रस्य वचनं न शृणोति ?
उत्तराणि:
(i) ताम्रचूड: नाम परिव्राजकः एकस्मिन् देवालये वसति स्म।
(ii) ताम्रचूड: सर्वां भिक्षां भिक्षापात्रे निधाय नागदन्ते अवलम्ब्य रात्रौ स्वपिति।
(iii) मूषक-स्वामी भिक्षापात्रं समारुह्य मूषकेभ्यः भिक्षान्नम् अयच्छत् ।
(iv) परिव्राजक: जर्जनवंशम् आनीय पुनः पुनः ताडयति।
(v) परिव्राजक: मूषकेण त्रस्तः, अतएव मित्रस्य वचनं न शृणोति।
12. अधोलिखितम्-अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखत
एकदा प्रात:काले बालः सिद्धार्थः उपवने भ्रमणम् अकरोत्। तदा गगने कस्यचित् व्याधस्य बाणेन एकः हंसः विद्धः अभवत्, सः च प्रकम्पमान: सिद्धार्थस्य उपवने अपतत् सिद्धार्थः धावित्वा हंसम् उपागच्छत्। हंसः पीडया व्यथितः आसीत्। सः हंसस्य शरीरात् बाणं बहिः अकरोत् । तदा देवदत्तः तत्र आगतः। सः अकथयत् – अयं मम हंसः अस्ति यतः अयं मया एव बाणेन विद्धः आसीत्। उभौ स्वपक्षे निर्णयं प्राप्तुं न्यायालयं गतौ। न्यायाधीशः अकथयत् – अ पक्षी तस्मै दास्यते यस्य समीपे मया मुक्तः अयं गमिष्यति। तदा राज्ञा मुक्तः सः हंसः सिद्धार्थम् उपागच्छत्। सिद्धार्थः तं गृहीत्वा गगने अमुञ्चत्।
प्रश्ना:
(i) बालः सिद्धार्थः कुत्र भ्रमणम् अकरोत् ?
(ii) गगने हंसः केन विद्धः अभवत् ?
(iii) ‘अयं मम हंसः अस्ति’ इति कः अवदत् ?
(iv) उभौ किमर्थम् न्यायालयं गतौ ?
(v) राज्ञा मुक्तः सः हंसः कम्’ उपागच्छत् ?
उत्तराणि
(i) बालः सिद्धार्थः उपवने भ्रमणम् अकरोत्।
(ii) गगने हंसः कस्यचित् व्याधस्य बाणेन विद्धः अभवत् ।
(iii) ‘अयं मम हंसः अस्ति’ इति सिद्धार्थः अवदत्।
(iv) उभौ स्वपक्षे निर्णयं प्राप्तुं न्यायालयं गतौ ?
(v) राज्ञा मुक्तः सः हंसः सिद्धार्थम् उपागच्छत् ?
13. अधोलिखितम्-अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखत
एक: शशक: कच्छपम् अवदत् – त्वं शनैः शनैः चलसि। अहं तु तीव्र धावामि। कच्छपः अवदत् – रे । शशक ! अहं शनैः शनैः चलामि परम आलस्यं न करोमि । तयोः मध्ये अयं समयः अभवत् – मार्गस्य अन्ते यः जलाशयः अस्ति, तत्र यः पूर्वं गमिष्यति सः विजयी भविष्यति । शशक: अधावत् -परं कच्छप: मन्दं मन्दम् अचलत्। किञ्चित् दूरं गत्वा शशक: वृक्षस्य छायायां विश्रामम् अकरोत्। श्रान्तः सः शीघ्रं गाढनिद्रायां सुप्तः। कच्छपः शशकं सुप्तं दृष्ट्वा अग्रे अचलत्। शशकः चिरात् निद्रां त्यक्त्वा यदा जलाशयस्य समीप प्राप्तः तदा तत्र स्थितः कच्छपः वदति-“ये सततं कार्ये संलग्नाः, तेषाम् एव विजयः भवति।
प्रश्ना:
(i) शशककच्छपमध्ये कः तीव्र धावति ?
(ii) कच्छपशशकमध्ये कः समयः अभवत् ?
(iii) शशकः कुत्र विश्रामं अकरोत् ?
(iv) शशक: जलाशयस्य समीपं कदा प्राप्तः ?
(v) केषाम् सततम् विजयः भवति ? (H.B. 2007-C)
उत्तराणि
(i) शशककच्छपमध्ये शशकः तीव्र धावति।
(ii) तयोः मध्यं अयं समयः अभवत् – मार्गस्य अन्ते यः जलाशयः अस्ति, तत्र यः पूर्वं गमिष्यति सः विजयी भविष्यति।।
(iii) शशक: वृक्षस्य छायायां विश्राम अकरोत्।
(iv) यदा कच्छपः विजय प्राप्तः तत्पश्चात् शशक: जलाशयस्य समीपं प्राप्तः।
(v) ये सततं कार्ये संलग्नाः भवन्ति, तेषाम् एव विजयः भवति।
अभ्यासार्थम्
1. अधोलिखितम्-अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखत
महर्षेः दयानन्दस्य जन्मनाम मूलशंकरः आसीत्। अयं महात्मा गुजरातप्रान्तस्य मौर्वी राज्ये टंकारा ग्रामे औदीच्यब्राह्मणकुले जन्म अलभत। अस्य पितुः नाम अम्बाशंकरः आसीत्। अस्मिन् कुले शिवपूजा महती भक्तिरूपेण भवति स्म। अम्बाशंकरः स्वपुत्रमपि शिवभक्तं द्रष्टुम् ऐच्छत्। पश्चात् एष संस्कृतस्य महान् विद्वान् अभवत्। वेदेषु अस्य अपारनिष्ठा आसीत्। एष एव श्रेष्ठसमाज-निर्माणाय आर्यसमाजस्य स्थापनाम् अकरोत्।
प्रश्नाः
(i) महर्षेः दयानन्दस्य जन्मनाम किम् आसीत् ?
(ii) कस्मिन् कुले महर्षेः दयानन्दस्य जन्म अभवत् ?
(iii) अस्य कुले कस्य पूजा भवति स्म ?
(iv) अम्बाशंकरः कस्य नाम आसीत् ?
(v) महर्षिः द्रयानन्दः आर्यसमाजस्य स्थापनाम् किमर्थम् अकरोत् ?
(2) अधोलिखितम्-अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखत
प्रकृतिः मनुष्यस्य उपकारिणी। मनुष्यैः सह तस्याः शाश्वत: सम्बन्धः । सा विविधरूपेषु अस्मिन् जगति आत्मानं प्रकटयति। विविधाः ओषधयः सकलानि खनिजानि च प्रकृतेः एव शोभा। सा तु नित्यम् एव एतैः साधनैः सर्वेषाम् उपकारं करोति, परम् अधन्यः अयं जनः कृतज्ञतां विहाय असाधुसेवितं पथं गच्छति, विविधानि कष्टानि च अनुभवति । नरः शाश्वतं सुखं वाञ्छति चेत् तर्हि प्रकृतेः प्रतिकूलं कदापि न आचरेत्।
प्रश्नाः-
(i) मनुष्यैः सह कस्याः शाश्वतः सम्बन्धः ?
(ii) प्रकृतिः विविधरूपेषु कुत्र आत्मानं प्रकटयति ?
(iii) प्रकृतेः का शोभा अस्ति ?
(iv) प्रकृति कस्य उपकारिणी अस्ति ?
(v) नरः शाश्वतं सुखं वाञ्छति चेत् तर्हि किं कदापि न आचरेत् ?
3. अधोलिखितम्-अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखत
अहं पाटलपुष्पम् अस्मि। दिने रविकिरणा: मां विकासयन्ति रात्रौ ज्योत्स्ना मां लालयति। मम अनेके वर्णाः-श्वेतः, पीतः, नारङ्गः, अरुणः, पाटलश्च । एतेषु रक्तिमः वर्णः जनेभ्यः सर्वाधिकं रोचते। वरवध्वोः जयमालयोः अहं विलसामि। अहं मृदुना सुगन्धेन वातावरणं सुरभितं करोमि । मम स्वल्पकालजीवनमपि लोकहितम् आतनोति अतः पूर्णविकसितं मे रूपम् अभिनन्दन्ति जनाः।
प्रश्ना :
(i) पाटलपुष्पम् कुत्र विलसति ?
(ii) दिने के पाटलपुष्पं विकासयन्ति ?
(iii) रात्रौ पाटलपुष्पं का लालयति ?
(iv) पाटलपुष्पस्य कति वर्णाः भवन्ति ?
(v) पाटलपुष्पस्य कं रूपं जनाः अभिनन्दन्ति ?
4. अधोलिखितम्-अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखत-
कस्मिंश्चित् नगरे एकः नसीमः नाम धनिकः वसति। नसीमः अतीव उदारपुरुषः आसीत्। सः सदैव निर्धनेभ्यः धनम्, वस्त्रहीनेभ्यः च वस्त्रम् यच्छति। एकदा तस्य प्रदेशे वर्षा न अभवत्। अन्नस्य तु तस्मिन् प्रदेशे अभावः एव अभवत्। तदा स: नसीमः सर्वेभ्य: जनेभ्यः अन्नदानम् अकरोत्। सः प्रतिदिनम् निर्धनेभ्यः अन्नम् भोजनम् च यच्छति। तस्य नगरे कोऽपि जनः क्षुधया पीडितः न अभवत्। एकदा नसीमः मार्गे काष्ठभारं वहन् एकम् वृद्धम् अपश्यत्। सः तम् अपृच्छत्-“त्वम् भोजनाय नसीमस्य गृहे किमर्थम् न गच्छसि ? वृथा वृद्धावस्थायाम् अपि श्रमम् करोषि इति”। वृद्धः अवदत् “श्रम एव मम जीवनम् न तु हस्तप्रसारणम्”।
(क) नसीमः कीदृशः पुरुषः आसीत् ?
(ख) स: केभ्यः धनम् यच्छति ?
(ग) नसीमः भारवहन् कम् अपश्यत् ?
(घ) तस्य नगरे कोऽपि जनः कया पीड़ितः न अभवत् ?
(ङ) अस्य अनुच्छेदस्य उचितं शीर्षकं लिखत।
5. अधोलिखितम्-अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखत
एक: कर्तव्यपरायणः नगररक्षकः आसीत्। यदा सः इतस्ततः अभ्रमत् तदा एकम् वृद्धम् महापुरुषम् अपश्यत्। सः वृद्धः आम्रवृक्षस्य आरोपणे लीनः आसीत्। इदम् दृष्ट्वा सः नगररक्षकः तम् अवदत्-“भवान् किमर्थम् वृथा परिश्रमम् करोति ? यतः यदा एषः वृक्ष: फलिष्यति तदा भवान् जीवितः न भविष्यति, अतः अलं श्रमेण” । वृद्धः महापुरुषः हसित्वा अवदत्”पश्यतु भवान् एतान् फलयुक्तान् वृक्षान्, एतेषाम् आरोपणम् मया न कृतम् परं अहम् फलानि खादित्वा सन्तुष्ट: भवामि। अतः यदा मम आरोपितस्य वृक्षस्य फलानि अन्ये खादिष्यन्ति, अहम् पुनः प्रसन्नः भविष्यामि”। महापुरुषस्य वचनम् श्रुत्वा नगररक्षकः अचिन्तयत्-“अहम् अपि वृक्षान् आरोपयिष्यामि”।
(क) नगररक्षकः कीदृशः आसीत् ?
(ख) सः कीदृशम् महापुरुषम् अपश्यत् ?
(ग) वृद्धः महापुरुषः कस्य आरोपणे लीनः आसीत् ?
(घ) कस्य वचनम् श्रुत्वा नगररक्षकः अचिन्तयत् ?
(ङ) अस्य अनुच्छेदस्य उचितं शीर्षकं लिखत।
6. अधोलिखितम्-अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखत
एक: कृषक: तस्य भार्या च प्रतिदिनम् स्वक्षेत्रे कार्यम् अकुरुताम्। एकदा यदा कृषक: खनित्रेण भूमिम् खनति स्म तदा सः एकम् स्वर्णस्य महाकुम्भम् प्राप्नोति। कुम्भे च स्वर्णमुद्राः आसन्। तौ प्रसन्नौ भूत्वा गृहे अगच्छताम्। अग्रिमे दिवसे कृषकस्य भार्या स्वसख्यै सर्वम् न्यवेदयत्। जनाः कृषकम् कथयन्ति धनम् राजकोषे यच्छ। यदा रात्रौ तस्य पत्नी स्वपिति स्म तदा कृषक: अनेकानि मिष्ठान्नानि क्रीत्वा सूत्रखण्डै: बद्ध्वा उद्यानस्य वृक्षेषु लम्बयत। यदा तस्य पत्नी वृक्षेषु मिष्ठान्नानि फलितानि सन्ति । सर्वे जनाः हसित्वा गच्छन्ति। कृषक: तु कथयति-“मम भार्या तु अद्यत्वे कल्पनालोके एव विचरति। स्वर्णकुम्भः अपि तस्याः कल्पना एव”।
(क) कृषकः प्रतिदिनम् कुत्र कार्यम् अकरोत् ?
(ख) क्षेत्रे कृषक: किम् प्राप्नोति ?
(ग) धनम् राजकोषे प्रयच्छ इति के कथयन्ति ?
(घ) कृषक: केन भूमिम् खनति ?
(ङ) अस्य अनुच्छेदस्य उचितं शीर्षकं लिखत।
7. अधोलिखितम्-अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखत
अस्माकं जन्मभूमिः भारतवर्षमस्ति। देशोऽयमतिरमणीयः वर्तते। देवाः अप्यस्य दर्शनोत्सुकाः भवन्ति। अस्य भूमिः विविधानि फलानि अन्नानि च उत्पादयति। भारतस्योत्तरस्यां दिशि नगाधिराजो हिमालयः शोभते। दक्षिणस्यां च दिशि सागरः पादक्षालनं करोति। षड्ऋतवोऽत्र क्रमशः आगच्छन्ति। अत्र अनेकाः भाषाः, विविधाः सम्प्रदायाः, विभिन्नाः जातयश्च सन्ति, पुनरपि अनेकतायामप्येकता सर्वत्र दृश्यते।
(i) भारतस्योत्तरस्यां दिशि कः शोभते ?
(ii) भारतभूमिः कानि उत्पादयति ?
(iii) . देशोऽयं कीदृशः वर्तते ?
(iv) दक्षिणस्यां दिशि कः पादक्षालनं करोति ?
(v) कति ऋतवोऽत्र क्रमशः आगच्छन्ति ?