Haryana State Board HBSE 8th Class Sanskrit Solutions Ruchira Chapter 5 कण्टकेनैव कण्टकम् Textbook Exercise Questions and Answers.
Haryana Board 8th Class Sanskrit Solutions Ruchira Chapter 5 कण्टकेनैव कण्टकम्
अभ्यासः
कण्टकेनैव कण्टकम् HBSE 8th Class Sanskrit प्रश्न 1.
एकपदेन उत्तरं लिखत-
(क) व्याधस्य नाम किम् आसीत?
(ख) चञ्चलः व्याघ्रं कुत्र दृष्टवान्?
(ग) कस्मै किमपि अकार्य न भवति।
(घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत्?
(ङ) सर्वः किं समीहते?
(च) निःसहायो व्याधः किमयाचत?
उत्तरम्:
(क) चञ्चलः।
(ख) जाले।
(ग) क्षुधार्ताय।
(घ) लोमशिका।
(ङ) स्वार्थम्।
(च) प्राणाभिक्षाम्।
कण्टकेनैव कण्टकम् Summary HBSE 8th Class Sanskrit प्रश्न 2.
पूर्णवाक्येन उत्तरत-
(क) चञ्चलेन वने किं कृतम्?
(ख) व्याघ्रस्य पिपासा कथं शान्ता अभवत्?
(ग) जलं पीत्वा व्याघ्रः किम् अवदत्?
(घ) चञ्चलः ‘मातृस्वस:!’ इति का सम्बोधितवान्?
(ङ) जाले पुनः बद्धं व्यानं दृष्ट्वा व्याधः किम् अकरोत्?
उत्तरम्:
(क) चञ्चलेन वने जाल विस्तृतम्।
(ख) व्याघ्रस्य पिपासा नदी जलेन शान्ता अभवत्।
(ग) जल पीत्वा व्याघ्रः अवदत्-“शमय मे पिपासा। साम्प्रतं बुभुक्षितोऽस्मिा इदानीम् अहं त्वां खादिष्यामि।”
(घ) चञ्चल: ‘मातृस्वस:!’ इति लोमशिकां सम्बोधितवान्।
(ङ) जाले पुनः बद्ध व्यानं दृष्ट्वा व्याधः प्रसन्नो भूत्वा गृहं प्रत्यावर्तत।
कण्टकेनैव HBSE 8th Class Sanskrit प्रश्न 4.
रेखांकित पदमाधृत्य प्रश्नानिर्माण-
(क) व्याधः व्याघ्र जालात् बहिः निरसारयत्।
उत्तरम्:
व्याधः व्याघ्नं कस्मात् बहिः निरसारयत्?
(ख) चञ्चल: वृक्षम् उपगम्य अपृच्छत्।
उत्तरम्:
चञ्चलः कम् उपगम्य अपृच्छत्?
(ग) व्याघ्रः लोमशिकायै निखिला कथां न्यवेदयत्।
उत्तरम्:
व्याघ्रः कस्यै निखिला कथां न्यवेदयत्?
(घ) मानवाः वृक्षाणां छायायां विरमन्ति।
उत्तरम्:
मानवाः केषां छायायां विरमन्ति?
(ङ) व्याघ्रः नद्याः जलेन व्याधस्य पिपासामशमयत्।
उत्तरम्:
व्याघ्रः कस्याः जलेन व्याधस्य पिपासामशमयत्?
Kantkenaiv Kantakam Chapter 5 HBSE 8th Class Sanskrit प्रश्न 5.
मञ्जूषातः पदानि चित्वा कथां पूरयत-
एकस्मिन् वने एकः _________ व्याघ्रः आसीत्। सः एकदा व्याधेन विस्तारित जाले बद्धः अभवत्। सः बहुप्रयासं _________ किन्तु जालात् मुक्तः नाभवत्। _________ तत्र एक: मूषक: समागच्छत्। बद्धं व्याघ्र _________ सः तम् अवदत्-अहो। भवान् जाले बद्धः। अहं त्वां _________ इच्छामि। तच्छ्रुत्वा व्याघ्रः _________ अवदत्-अरे! त्वं _________ जीवः मम साहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि _________ अहं त्वां न हनिष्यामि। मूषक: _________ लघुदन्तैः तज्जालस्य _________ कृत्वा तं व्याघ्र बहिः कृतवान्।
उत्तरम्:
एकस्मिन् वने एकः वृद्धः व्याघ्रः आसीत्। सः एकदा व्याधेन विस्तारिते जाले बद्धः अभवत्। सः बहुप्रयासं कृतवान् किन्तु जालात् मुक्तः नाभवत्। अकस्मात् तत्र एकः मूषकः समागच्छत्। बद्धं व्याघ्रं दृष्ट्वा सः तम् अवदत्-अहो। भवान् जाले बद्धः। अहं त्वां मोचयितुम् इच्छामि। तच्छ्रुत्वा व्याघ्रः साट्टहासम् अवदत्-अरे! त्वं क्षद्रः जीवः मम साहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि। मूषक: स्वकीयैः लघुदन्तैः तज्जालं कर्तनम् कृत्वा तं व्याघ्र बहिः कृतवान्।
प्रश्न 6.
यथानिर्देशमुत्तरत-
(क) सः लोमशिकायै सर्वा कथां न्यवेदयत्-अस्मिन् वाक्ये विशेषणपदं किम्।
उत्तरम्:
सर्वाम्।
(ख) अहं त्वत्कृते धर्मम् आचरितवान्-अत्र अहम् इति सर्वनामपदं कस्मै प्रयुक्तम्।
उत्तरम्:
व्याधाय।
(ग) ‘सर्वः स्वार्थ समीहते’, अस्मिन् वाक्ये कर्तृपदं किम्।
उत्तरम्:
समीहते।
(घ) सा सहसा चञ्चलमुपसृत्य कथयति-वाक्यात् एकम् अव्ययपदं चित्वा लिखत।
उत्तरम्:
सहसा।
(ङ) ‘का वार्ता? माम् अपि विज्ञापय’-अस्मिन् वाक्ये क्रियापदं किम्? क्रियापदस्य पदपरिचयमपि लिखतः।
उत्तरम्:
विज्ञापय-पदपरिचय:- विज्ञा, लोट्लकारः मध्यमपुरुषः एकवचनम्।
मूलपाठः
आसीत् कश्चित् चञ्चलो नाम व्याधः। पक्षिमृगादौनां ग्रहणेन सः स्वीयाँ जीविका निर्वाहयति स्म। एकदा सः वने जाल विस्तीर्य गृहम् आगतवान्। अन्यस्मिन् दिवसे प्रात:काले यदा चञ्चल: वनं गतवान् तदा सः दृष्टवान् यत् तेन विस्तारित जाले दौभाग्याद् एकः व्याघ्रः बद्ध: आसीत्। सोऽचिन्तयत्, ‘व्याघ्रः मां खादिष्यति। अतएव पलायनं करणीयम्।’ व्याघ्रः न्यवेदयत्-‘भो मानव! कल्याणं भवतु ते।
यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि।’ तदा सः व्याधः व्याघ्र जालात् बहिः निरसारयत्। व्याघ्रः क्लान्तः आसीत्। सोऽवदत्, ‘भो मानव! पिपासुः अहम्। नद्याः जलमानीय मम पिपासां शमय। व्याघ्रः जलं पीत्वा पुनः व्याधमवदत्, ‘शमय मे पिपासा। साम्प्रतं बुभुक्षितोऽस्मि। इदानीम् अहं त्वां खादिष्यामि।’ चञ्चलः उक्तवान्, ‘अहं त्वत्कृते धर्मम् आचरितवान्। त्वया मिथ्या भणितम्। त्वं मां खादितुम् इच्छसि?
व्याघ्रः अवदत, ‘अरे मूर्ख! क्षुधार्ताय किमपि अकार्यम् न भवति। सर्वः स्वार्थ समीहते।’ चञ्चल: नदीजलम् अपृच्छत्। नदीजलम् अवदत्, एवमेव भवति, जनाः मयि स्नानं कुर्वन्ति, वस्त्राणि प्रक्षालयन्ति तथा च मूल-मूत्रादिकं विसृज्य निवर्तन्ते, वस्तुतः सर्वः स्वार्थ समीहते।
चञ्चल: वृक्षम् उपगम्य अपृच्छत्। वृक्षः अवदत, ‘मानवाः अस्माकं छायायां विरमन्ति। अस्माकं फलानि खादन्ति, पुनः कुठारैः प्रहत्य अस्मभ्यं सर्वदा कष्टं ददति। यत्र कुत्रापि छेदनं कुर्वन्ति। सर्वः स्वार्थ समीहते।’
समीपे एका लोमशिका बदरी-गुल्मानां पृष्ठे निलीना एतां वाता शृणोति स्मः। सा सहसा चञ्चलमुपसृत्य कथयति- “का वार्ता? माम् अपि विज्ञापया” सः अवदत्- “अहह मातृस्वस:! अवसरे त्वं समागतवती। मया अस्य व्याघ्रस्य प्राणाः रक्षिताः, परम् एषः मामेव खादितुम् इच्छति।” तदनन्तरं सः लोमशिकायै निखिला कथां न्यवेदयत्।
लोमशिका चञ्चलम् अकथयत्-बाढम्, त्वं जालं प्रसारय। पुनः सा व्याघ्रम् अवदत्-केन प्रकारेण त्वम् एतस्मिन् जाले बद्धः इति अहं प्रत्यक्ष द्रष्टुमिच्छामि। व्याघ्रः तद् वृत्तान्तं प्रदर्शयितुं तस्मिन् जाले प्राविशत्। लोमशिका पुनः अकथयत्-सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय। सः तथैव समाचरत्। अनारतं कूर्दनेन सः श्रान्तः अभवत्। जाले बद्धः सः व्याघ्रः क्लान्तः सन् निःसहायो भूत्वा तत्र अपतत् प्राणभिक्षामिव च अयाचत। लोमशिका व्याघ्रम् अवदत् ‘सत्यं त्वया भणितम्’ सर्व: स्वार्थ समीहते।
सन्धिविच्छेदः
चञ्चलो नाम = चञ्चल: + नाम। सोऽचिन्तयत् = स: + अचिन्तयत्। न्यवेदयत् = नि + अवेदयत्। निरसारयत् = नि: + असारयत। सोऽवदत् = स: + अवदत्। बुभुक्षितोऽस्मि = बुभुक्षित + अस्मि। क्षुधार्ताय = क्षुधा + आर्ताय। मूत्राविकम् = मूत्र + आदिकम्। तदनन्तरम् = तत् + अनन्तरम्। प्राविशत् = प्र + अविशत्। तथैव = तथा + एव।
संयोगः
जलमानीय = जलम् + आनीय। व्याधमवदत् = व्याधः + अवदत्। किमपि = किम् + अपि। एवमेव = एवम् + एवा। चञ्चलमुपस्त्य = चञ्चलम् + उपसृत्या। मामेव = माम् + एवा। द्रष्टुमिच्छामि = द्रष्टुम् + इच्छामि। समाचरत् = सम् + आचरत्। भिक्षामिव = भिक्षाम् + इव।
पदार्थबोधः
व्याधः = शिकारी, बहेलिया (निहता)। विस्तीर्य = फैलाकर (विस्तृतं कृत्वा)। दौर्भाग्यात् = दुर्भाग्य से (कुसंयोगेन)। व्याघ्रः = बाघ (सिंहस्य, सदृशः)। बद्ध = बैंध हुआ (बन्धने)। न्यवेदयत् = आग्रह किया (निवेदनं कृतम्)। मोचयिष्यसि = मुक्त करोगे (त्यक्ष्यसि)। निरसारयत् = निकाला (निष्कासिता)। क्लान्तः = थक गया (परिश्रान्तः)। भणितम् = कहा (उक्तम्)। क्षुधार्ताय = भूखे के लिए (बुभुक्षिताय)। समीहते = चाहते हैं (वाञ्छति)। उपगम्य = पास जाकर (पाय गत्वा)। विरमन्ति = विराम लेते हैं, रुकते हैं (विनाम, कुर्वन्ति)। मातृस्वस: = मौसी (मातृः भगिनी)। क्लान्तः = थका हुआ (थकित:)। लोमशिका = लोमड़ी (चतुरः पशुः)।
सरलार्थ –
चंचल नाम का कोई शिकारी था। पक्षियों एवं हिरणों के शिकार से वह अपनी रोजी-रोटी कमाता था। एक बार वह जंगल में जाल बिछाकर घर आ गया। दूसरे दिन सुबह जब वह जंगल में गया तो देखा कि उसके द्वारा फैलाए गए जाल में दुर्भाग्य से एक बाघ फंस गया है। उसने सोचा कि ‘बाघ मुझे खा जाएगा इसलिए यहाँ से भाग जाना चाहिए।’ बाघ ने उससे निवेदन किया-‘अरे मनुष्य! तुम्हारा कल्याण हो। अगर तुम मुझे मुक्त कर दोगे तो मैं तुम्हें नहीं मारूंगा।’ तब उस शिकारी ने बाघ को जाल से बाहर निकाल दिया। बाघ थका हुआ था। वह बोला-‘अरे मानव! मैं प्यासा हूँ। नदी से पानी लाकर मेरी प्यास बुझाओ।
बाघ पानी पीकर फिर शिकारी से बोला ‘मेरी भूख मिटाओ। अभी मैं भूखा हूँ। अब मैं तुम्हें खाऊँगा।’ चंचल ने कहा- “मैंने तुम्हारे लिए अपने धर्म (कर्तव्य) का आचरण किया। तुमने झूठ बोला। तुम मुझे खाना चाहते हो।”
बाघ बोला, ‘अरे बेवकूफ! भूखे (प्राणी) के लिए कुछ अकार्य नहीं होता। सभी स्वार्थ पूरा करना चाहते हैं।’
चंचल ने नदी के पानी से पूछा। नदी का पानी बोला, ‘ऐसा ही होता है, लोग मुझमे नहाते हैं, कपड़े धोते हैं और मल मूत्र विसर्जित करते हैं, चले जाते हैं। दरअसल सभी स्वार्थ पूरा करना चाहते हैं।’
चंचल ने पेड़ के पास जाकर पूछा। पेड़ बोला, ‘मानव मेरी छाया में विश्राम करते हैं। हमारे फल खाते हैं, फिर कुल्हाड़ी से प्रहार करके हमें हमेशा कष्ट देते हैं। जहाँ कहीं भी छेद कर देते हैं। सब अपना उल्लू सीधा करते हैं।
पास में ही एक लोमड़ी बदरी-साड़ियों के पीछे सारी बात सुन रही थी। वह अचानक चंचल के पास आकर कहती हैं-“क्या बात है? मुझे भी बताओ।” वह बोला-“ओह मौसी जी! तुम सही वक्त पर आई हो। मैंने इस बाघ के प्राण बचाए, लेकिन यह मुझे ही खाना चाहता है। उसके बाद उसने लोमड़ी को सारी बात बता दी।
लोमड़ी ने चंचल से कहा-ठीक है, तुम जाल पसारो। फिर वह बाघ से बोली- तुम कैसे इस जाल में बंध गए, यह सब सामने देखना चाहती हूँ। बाघ उस वृत्तांत को दिखाने के लिए उस जाल में चला गया।
फिर लोमड़ी ने कहा-अब फिर से कूदकर दिखाओ। उसने वैसा ही किया। लगातार कूदने से थका हुआ वह बेसहारा होकर वहीं गिर पड़ा और प्राणों की भीख माँगने लगा।
लोमड़ी शिकारी से बोली ‘तुमने सच कहा, सब स्वार्थ पूरा करना चाहते हैं।
भावार्थ –
इस पाठ में यह वर्णित है कि संकट के समय जो सर्वाधिक सहायक है, वह है चालाकी या बुद्धिमानी। बड़े-से बड़ा संकट धैर्यपूर्ण चतुरता से दूर हो जाता है।
कण्टकेनैव कण्टकम् Summary
कण्टकेनैव कण्टकम् पाठ-परिचयः
पंचतंत्र की तरह लिखित यह पाठ मध्य प्रदेश के डिण्डोरी जनपद में परधानों में प्रचलित एक लोककथा पर आधारित है। इसमें बताया गया है कि मुसीबत में चालाकी और त्वरित बुद्धि के बल से बाहर निकला जा सकता है।