HBSE 12th Class Sanskrit Solutions Shashwati Chapter 5 शुकनासोपदेशः

Haryana State Board HBSE 12th Class Sanskrit Solutions Shashwati Chapter 5 शुकनासोपदेशः Textbook Exercise Questions and Answers.

Haryana Board 12th Class Sanskrit Solutions Shashwati Chapter 5 शुकनासोपदेशः

HBSE 12th Class Sanskrit शुकनासोपदेशः Textbook Questions and Answers

1. संस्कृतेन उत्तरं दीयताम्
(क) लक्ष्मीमदः कीदृशः ?
(ख) चन्द्रापीडं कः उपदिशति ?
(ग) अनर्थपरम्परायाः किं कारणम् ?
(घ) कीदृशे मनसि उपदेशगुणाः प्रविशन्ति ?
(ङ) लब्धापि दुःखेन का परिपाल्यते ?
(च) केषाम् उपदेष्टारः विरलाः सन्ति ?
(छ) लक्ष्म्या परिगृहीताः राजानः कीदृशाः भवन्ति ?
(ज) वृद्धोपदेशं ते राजानः किमिति पश्यन्ति ?
उत्तरम्:
(क) लक्ष्मीमदः अपरिणामोपशमः दारुणः अस्ति।
(ख) चन्द्रापीडं मन्त्री शुकनासः उपदिशति ?
(ग) अनर्थपरम्परायाः कारणानि-गर्भेश्वरत्वम्, अभिनवयौवनत्वम्, अप्रतिम-रूपत्वम्, अमानुषशक्तित्वं चेति।
(घ) अपगतमले मनसि उपदेशगुणाः प्रविशन्ति।
(ङ) लब्धापि दुःखेन लक्ष्मीः परिपाल्यते।
(च) राज्ञाम् उपदेष्टारः विरलाः सन्ति ?
(छ) लक्ष्म्या परिगृहीताः राजानः विक्लवाः भवन्ति ?
(ज) वृद्धोपदेशं ते राजानः जरावैक्लव्यप्रलपितम् इति पश्यन्ति ?

HBSE 12th Class Sanskrit Solutions Shashwati Chapter 5 शुकनासोपदेशः

2. विशेषणानि विशेष्यैः सह योजयत
विशेषणम् – विशेष्यम्
(क) समतिक्रामत्सु – ते
(ख) अधीतशास्त्रस्य – विद्वांसम्
(ग) दारुणो – दिवसेषु
(घ) गहनं तमः – दोषजातम्
(ङ) अतिमलिनम् – लक्ष्मीमदः
(च) सचेतसम् – यौवनप्रभवम्
उत्तरम्:
(क) समतिक्रामत्सु – दिवसेषु
(ख) अधीतशास्त्रस्य – ते
(ग) दारुणो – लक्ष्मीमदः
(घ) गहनं तमः – यौवनप्रभवम्
(ङ) अतिमलिनम् – दोषजातम्
(च) सचेतसम् – विद्वांसम्

3. अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुग्ध्वम्
संग्रहार्थम्, समुपस्थितम्, विनयम्, परिणमयति, शृण्वन्ति, स्पृशति।
उत्तरम्:
(वाक्यप्रयोगः)
(क) संग्रहार्थम्-सद्गुणानां संग्रहणार्थं सदा यत्नः करणीयः।
(ख) समुपस्थितम्-राजा समुपस्थितं सेवकं शस्त्रम् आनेतुम् आदिशत्।
(ग) विनयम्-विद्या विनयं ददाति।
(घ) परिणमयति-लक्ष्मीमदः सज्जनम् अपि दुष्टभावेषु परिणमयति।
(ङ) शृण्वन्ति-अहंकारिणः राजानः गुरूपदेशान् न शृण्वन्ति।
(च) स्पृशति-लक्ष्मी: गुणवन्तं न स्पृशति।

HBSE 12th Class Sanskrit Solutions Shashwati Chapter 5 शुकनासोपदेशः

4. अधोलिखितानां पदानां सन्धिच्छेदं कुरुत
उत्तरसहितम्:
(क) एवातिगहनम् = एव + अतिगहनम्
(ख) गर्भेश्वरत्वम् = गर्भ + ईश्वरत्वम्
(ग) गुरूपदेशः = गुरु + उपदेशः
(घ) ह्येवम् = हि + एवम्
(ङ) नाभिजनम् = न + अभिजनम्
(च) नोपसर्पति = न + उपसर्पति

5. प्रकृति-प्रत्ययविभागः क्रियताम्
उत्तरसहितम्
HBSE 12th Class Sanskrit Solutions Shashwati Chapter 5 शुकनासोपदेशः img-2

6. समासविग्रहं कुरुत
उत्तरसहितम्:
(क) अमानुषशक्तित्वम् – न मानुषशक्तित्वम् (नञ्-तत्पुरुषः)
(ख) अत्यासाः अतिशयेन आसङ्गः (उपपद-तत्पुरुषः)
(ग) अनार्या न आर्या (नञ्-तत्पुरुषः)
(घ) स्वार्थनिष्पादनपरैः – स्वार्थस्य निष्पादने परैः (तत्परैः) तत्पुरुषः
(ङ) अहर्निशम् – निशायां निशायाम् (अव्ययीभावः)
(च) वृद्धोपदेशम् – वृद्धानाम् उपदेशम् (षष्ठी-तत्पुरुषः)

7. रिक्तस्थानानि पूरयत
(क) लक्ष्मी : …………………. न रक्षति।
(ख) ………………. दुःस्वप्नमिव न स्मरति।
(ग) सरस्वतीपरिगृहीतं ……………….
(घ) उपदिश्यमानमपि ………………… न शृण्वन्ति।
(ङ) अवधीरयन्तः ………………….. हितोपदेशदायिनो गुरून्।
(च) तथा प्रयतेथाः ……………… नोपहस्यसे जनैः।
(छ) चन्द्रापीड: प्रीतहृदयो ………………… आजगाम।
उत्तरम्:
(क) परिचयम्
(ख) दातारम्
(ग) नालिङ्गति
(घ) राजानः
(ङ) खेदयन्ति
(च) यथा
(छ) स्वभवनम्।

HBSE 12th Class Sanskrit Solutions Shashwati Chapter 5 शुकनासोपदेशः

8. सप्रसङ्गं हिन्दीभाषया व्याख्या कार्या
(क) गर्भेश्वरत्वभिनवयौवनत्वमप्रतिमरूपत्वममानुषशक्तित्वञ्चेति महतीयं खल्वनर्थपरम्परा।
(ख) हरति अतिमलिनमपि दोषजातं गुरूपदेशः ।
(ग) विद्वांसमपि सचेतसमपि, महासत्त्वमपि, अभिजातमपि, धीरमपि, प्रयत्नवन्तमपि पुरुषं दुर्विनीता खलीकरोति
लक्ष्मीरिति। उत्तरम् -(व्याख्या)
(क) गर्भेश्वरत्वभिनवयौवनत्वमप्रतिमरूपत्वममानुषशक्तित्वज्येति महतीयं खल्वनर्थपरम्परा।

व्याख्या-प्रस्तुत पंक्ति शुकनासोपदेश नामक पाठ से ली गई है। यह पाठ संस्कृत के महान् गद्यकार बाणभट्ट द्वारा रचित कादम्बरी से लिया गया है। प्रस्तुत पंक्ति में मन्त्री शुकनास युवराज चन्द्रापीड को उपदेश करते हुए अनर्थ के चार कारणों की ओर ध्यान दिला रहे हैं। मन्त्री शुकनास कहते हैं कि अनर्थ की परम्परा के चार कारण हैं… (i) जन्म से ही प्रभुता
(ii) नया यौवन
(iii) अति सुन्दर रूप
(iv) अमानुषी शक्ति।

इन चारों में से मनुष्य का विनाश करने के लिए कोई एक कारण भी पर्याप्त होता है। जिसके जीवन में ये चारों ही कारण उपस्थित हों, उसके विनाश को कौन रोक सकता है ? इसीलिए प्रत्येक मनुष्य को घोर अनर्थ से बचने के लिए उक्त चारों वस्तुएँ पाकर भी कभी अहंकार नहीं करना चाहिए।

(ख) हरति अतिमलिनमपि दोषजातं गुरूपदेशः।
व्याख्या-प्रस्तुत पंक्ति शुकनासोपदेश नामक पाठ से ली गई है। यह पाठ संस्कृत के महान् गद्यकार बाणभट्ट द्वारा रचित कादम्बरी से लिया गया है। प्रस्तुत पंक्ति में शुकनास युवराज चन्द्रापीड को गुरु के उपदेश का महत्त्व समझा रहे हैं । मन्त्री शुकनास कहते हैं कि गुरु का उपदेश मनुष्य के जीवन में बहुत अधिक उपयोगी तथा हितकारी होता है। मनुष्य में यदि अत्यधिक गहरे दोषों का समूह हो तो गुरु का उपदेश उन गहरे से गहरे दोषों को भी दूर कर देता है और उन दोषों के स्थान पर अति उत्तम गुण प्रवेश कर जाते हैं। मनुष्य का जीवन उज्ज्वल हो जाता है। सब जगह ऐसे व्यक्ति का यश फैलता है, इसीलिए गुरु का उपदेश प्रत्येक मनुष्य के लिए परम कल्याणकारी तथा आवश्यक है।

(ग) विद्वांसमपि सचेतसमपि, महासत्त्वमपि, अभिजातमपि, धीरमपि, प्रयत्न-वन्तमपि पुरुषं दुर्विनीता खलीकरोति लक्ष्मीरिति।
व्याख्या-प्रस्तुत पंक्ति शुकनासोपदेश नामक पाठ से ली गई है। यह पाठ संस्कृत के महान् गद्यकार बाणभट्ट द्वारा रचित कादम्बरी से लिया गया है। प्रस्तुत पंक्ति में मन्त्री शुकनास लक्ष्मी अर्थात् धन के गुणों पर प्रकाश डाल रहे हैं।

मन्त्री शुकनास कहते हैं कि लक्ष्मी इतनी शक्तिशाली होती है कि अत्यन्त जागरूक रहने वाले विद्वान्, महान् बलशाली, उच्चकुल में उत्पन्न, धैर्यशील तथा अत्यन्त परिश्रमी मनुष्य को भी यह लक्ष्मी दुष्ट आचरण वाला बना देती है। शुकनास के कहने का तात्पर्य है कि जिस मनुष्य के पास धन होता है, वह धन के अहंकार में कर्तव्य-अकर्तव्य के विवेक को खो बैठता है और कुमार्गगामी हो जाता है।

HBSE 12th Class Sanskrit Solutions Shashwati Chapter 5 शुकनासोपदेशः

योग्यताविस्तारः
‘उप’ उपसर्गपूर्वकात् अतिसर्जनार्थकात् ‘दिश्’ धातोः ‘घञ्’ प्रत्यये उपदेशशब्दः निष्पद्यते। समुचितकार्येषु मित्रं, बन्धु, आश्रितजनं, विद्यार्थिनं वा सन्मार्गे प्रवर्तयितुं केनचित् हितचिन्तकेन सुहृद्वरेण ज्ञानिना वा दीयमानः परामर्शः मार्गनिर्देशः हितवचनं वा ‘उपदेश’ इति उच्यते। संस्कृतवाङ्मये लोकप्रबोधकानि सदाचारप्रतिपादकानि च सूत्राणि नानाग्रन्थेषु, काव्येषु सुभाषितेषु च समुपलभ्यन्ते। तानि उपदेशसूत्राणि बालकान्, युवकान्, प्रौढान्, वृद्धान विविधेषु क्षेत्रेषु कार्याणि कुर्वतः च अधिकृत्य सामान्येन प्रकारेण प्रणीतानि सन्ति।

अत्र उद्धृते भागे शुकनासोपदेशाख्ये राजकुमारं चन्द्रापीडं प्रति शुकनासस्य उपदेशः संगृहीतः। तथाहि-ऐश्वर्य, यौवनं, सौन्दर्य, शक्तिश्चेति प्रत्येकं अनर्थकारणमिति मत्त्वा चन्द्रापीडम् उपदेष्टुं प्रक्रान्तः शुकनासः । यद्यपि चन्द्रापीडः विनीतः गृहीतविद्यश्च तथापि ऐश्वर्यादिभिः अस्य मनः खलीकृतं न भवेत् इति धिया शुकनासः चन्द्रापीडम् उपदिशति। अत: उपदेशोऽयं न केवलं चन्द्रापीडं प्रति अपितु तन्माध्यमेन सर्वेषां जनानां कृतेऽपि।

पञ्चतन्त्रेऽपि यत्र-तत्र ईदृश एव हृदयङ्गमः उपदेशः प्राप्यते। यौवनादिकारणैः सम्भाव्यमानमनर्थं पञ्चतन्त्रम् एवमुल्लिखति

यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम्॥

महाभारतस्य उद्योगपर्वणः भागे विदुरनीतौ अपि एवमभिहितमस्ति
अष्टौ गुणाः पुरुषं दीपयन्ति
प्रज्ञा च कौल्यं च दमः श्रुतं च॥
पराक्रमश्चाबहुभाषिता च
दानं यथाशक्ति कृतज्ञता च॥
न क्रोधिनोऽर्थो न नृशंसमित्रं
क्रूरस्य न स्त्री सुखिनो न विद्या।
न कामिनो ह्रीरलसस्य न श्रीः
सर्वं तु न स्यादनवस्थितस्य॥

अन्यत्रापि हितोपदेश-नीतिशतकादौ च एवमुपदिष्टम् अस्ति। तत्र-तत्रापि योग्यता विस्तरार्थमवश्यं पठनीयम्।
1. बाणभट्टस्य रीतिः पाञ्चाली रीतिरिति कथ्यते । तस्याः लक्षणम् “शब्दार्थयोः समो गुम्फः पाञ्चालीरीतिरिष्यते।”
2. बाणभट्टस्य गद्ये या लयात्मकता वर्तते, पाठपुरस्सरं तस्याः सन्धानं कार्यम्।

बाणविषयकसूक्तयः प्रशस्तयश्च
1. बाणोच्छिष्टं जगत्सर्वम्।

2. केवलोऽपि स्फुरन् बाणः करोति विमदान् कवीन्।
किं पुनः क्लृप्तसन्धानः पुलिन्दकृतसन्निधिः॥ (धनपालः-तिलकमञ्जरी)

3. सुबन्धुर्बाणभट्टश्च कविराज इतित्रयः।
वक्रोक्तिमार्गनिपुणाश्चतुर्थो विद्यते न वा॥ (मङ्खक:-श्रीकण्ठचरितम्)

4. श्लेषे केचन शब्दगुम्फविषये केचिद्रसे चापरेऽ
लड़कारे कतिचित्सदर्थविषये चान्ये कथावर्णने।
आः सर्वत्र गभीरधीरकविताविन्ध्याटवी चातुरी
सञ्चारी कविकुम्भिकुम्भभिदुरां बाणस्तु पञ्चाननः॥ (चन्द्रदेवः-शार्ङ्गधरपद्धतिः)

5. शब्दार्थयोः समो गुम्फः पाञ्चालीरीतिरिष्यते।
शीलाभारिकावाचि बाणोत्तिषु च सा यदि॥ (राजशेखर-कल्हण-सूक्तिमुक्तावली)

6. रुचिरस्वरवर्णपदा रसभावती जगन्मनो हरति।
सा किं तरुणी ? नहि नहि वाणी बाणस्य मधुरशीलस्य॥ (धर्मदासः-विदग्धमुखमण्डनम्)

7. बाणः कवीनामिह चक्रवर्ती चकास्ति यस्योज्ज्वलवर्णशोभम्।
एकातपत्रं भुवि पुण्यभूमिवंशाश्रयं हर्षचरित्रमेव॥ (सोड्ढलः)

8. हृदि लग्नेन बाणेन यन्मन्दोऽपि पदक्रमः।
भवेत्कविकुरगणां चापलं तत्र कारणम्॥ (त्रिलोचनः-शार्ङ्गधरपद्धतिः)

9. यस्याश्चौरश्चिकुरनिकरः कर्णपूरो मयूरो
भासो हासः कविकुलगुरुः कालिदासो विलासः।
हर्षो हर्षो हृदयवसतिः पञ्चबाणस्तु बाणः
केषां नैषा कथय कविताकामिनी कौतुकाय॥(जयदेवः-प्रसन्नराघवः)

HBSE 12th Class Sanskrit Solutions Shashwati Chapter 5 शुकनासोपदेशः

HBSE 9th Class Sanskrit शुकनासोपदेशः Important Questions and Answers

I. पुस्तकानुसारं समुचितम् उत्तरं चित्वा लिखत
(i) लक्ष्मीमदः कीदृशः ?
(A) उपशमः
(B) अपरिणामः
(C) अपरिणामोपशमः
(D) सुखावहः।
उत्तराणि:
(B) अपरिणामोपशमः

(ii) चन्द्रापीडं कः उपदिशति?
(A) शुकनासः
(B) शुकः
(C) तारापीडः
(D) बृहस्पतिः।
उत्तराणि:
(A) शुकनासः

(iii) कीदृशे मनसि उपदेशगुणाः प्रविशन्ति।
(A) मलिने
(B) अपगतमले
(C) छलयुक्ते
(D) छलान्विते।
उत्तराणि:
(B) अपंगतमले

(iv) लब्धापि दुःखेन का परिपाल्यते?
(A) लक्ष्मीः
(B) विद्या
(C) गौः
(D) स्त्री।
उत्तराणि:
(A) लक्ष्मी

(v) केषाम् उपदेष्टारः विरलाः सन्ति ?
(A) गुरूणाम्
(B) शठानाम्
(C) राज्ञाम्
(D) अल्पज्ञानाम्।
उत्तराणि:
(C) राज्ञाम्

(vi) लक्ष्म्या परिगृहीताः राजानः कीदृशाः भवन्ति?
(A) प्रसन्नाः
(B) विक्लवाः
(C) सुप्ताः
(D) यशस्विनः।
उत्तराणि:
(B) विक्लवाः।

HBSE 12th Class Sanskrit Solutions Shashwati Chapter 5 शुकनासोपदेशः

II. रेखाकितपदम् आधृत्य प्रश्ननिर्माणाय समुचितं पदं चित्वा लिखत
(i) लक्ष्मीः लब्धाऽपि खलु दुःखेन परिपाल्यते।
(A) कथम्
(B) काः
(C) कः
(D) किम्।

(ii) अधीतसर्वशास्त्रस्य नाल्पमपि उपदेष्टव्यम् अस्ति।
(A) कम्
(B) कस्मात्
(C) कस्य
(D) कः।
(B) कस्मै

(iii) अपरिणामोपशमः लक्ष्मीमदः।
(A) कीदृशः
(B) किम्
(C) काः
(D) कस्मैः

(iv) लक्ष्मीः शूरं कण्टकमिव परिहरति।
(A) कः
(C) कस्य
(D) कम्।

(v) राजानः कुप्यन्ति हितवादिने
(A) कस्य
(B) कस्मै
(C) कस्मात्
(D) केषाम्।
उत्तराणि
(A) कथम्
(C) कस्य
(A) कीदृशः
(D) कम्
(B) कस्मै।

HBSE 12th Class Sanskrit Solutions Shashwati Chapter 5 शुकनासोपदेशः

शुकनासोपदेशः पाठ्यांशः
1. एवं समतिक्रामत्सु दिवसेषु राजा चन्द्रापीडस्य यौवराज्याभिषेकं चिकीर्षुः प्रतीहारानुपकरण सम्भारसंग्रहार्थमादिदेश। समुपस्थितयौवराज्याभिषेकं च तं कदाचिद् दर्शनार्थमागतमारूढविनयमपि विनीततरमिच्छन् कर्तुं शुकनासः सविस्तरमुवाच
HBSE 12th Class Sanskrit Solutions Shashwati Chapter 5 शुकनासोपदेशः img-1
“तात! चन्द्रापीड! विदितवेदितव्यस्याधीतसर्वशास्त्रस्य ते नाल्पमप्युपदेष्टव्यमस्ति। केवलं च निसर्गत एवातिगहनं तमो यौवनप्रभवम्। अपरिणामोपशमो दारुणो लक्ष्मीमदः। अप्रबोधा घोरा च राज्यसुखसन्निपातनिद्रा भवति, इत्यतः विस्तरेणाभिधीयसे।”

प्रसंग:-प्रस्तुत पाठ्यांश हमारी पाठ्यपुस्तक ‘शाश्वती-द्वितीयो भागः’ के ‘शुकनाशोपदेशः’ नामक पाठ से लिया गया है। यह पाठ संस्कृत के महान् गद्यकार बाणभट्ट की प्रसिद्ध रचना ‘कादम्बरी’ से सम्पादित है। इस पाठ में राजा तारापीड का अनुभवी मन्त्री राजकुमार चन्द्रापीड को राज्याभिषेक से पूर्व हितैषी भाव से उपदेश देते हैं। वे उसे युवावस्था में रूप, यौवन, प्रभुता तथा ऐश्वर्य से उत्पन्न होने वाले स्वाभाविक दोषों के विषय में सावधान कर देना अपना कर्तव्य समझते हैं।

हिन्दी-अनुवादः
इस प्रकार कुछ दिन बीत जाने पर राजा तारापीड ने राजकुमार चन्द्रापीड को राजतिलक करने की इच्छा से द्वारपालों को आवश्यक सामग्री-समूह के संग्रह करने के लिए आदेश दिया। जिसके राजतिलक समय निकट ही आ चुका था, जो कदाचित् मन्त्री शुकनास का दर्शन करने के लिए आया था-ऐसे उस विनयसम्पन्न (विशेष नीति से युक्त) राजकुमार चन्द्रापीड को और भी अधिक विनयवान् बनाने की इच्छा वाले शुकनास ने विस्तारपूर्वक कहा-हे बेटा, चन्द्रापीड! जो कुछ विषय जानना चाहिए, वह सब तुम जानते हो। तुम वेदादि सब शास्त्रों को पढ़े हुए हो, इसलिए तुम्हें थोड़ी भी उपदेश देने की आवश्यकता नहीं है। केवल यही कहना है कि जवानी में स्वभाव से ही जो अन्धकार पैदा होता है, वह अन्धकार अत्यन्त घना (घोर) होकर रहता है। धनसम्पत्ति का (नशा) मद ऐसा भयानक होता है कि वह आयु के परिणाम अर्थात् वृद्धावस्था में भी शान्त नहीं होता। राज्यसुख रूपी सन्निपात ज्वर से उत्पन्न निद्रा इतनी गहरी होती है कि प्रबोध (जागरण) ही नहीं हो पाता-इसीलिए तुम्हें विस्तारपूर्वक कहा जा रहा है।

शब्दार्थाः टिप्पण्यश्च
चिकीर्षुः = करने की इच्छावाला, कर्तुमिच्छु:, √कृ + सन् + उ, प्रथमा विभक्ति एकवचन। विनयम् आरुढः = विशिष्ट नय (नीति) से सम्पन्न, विशेष रूप से नीतिमान् । प्रतीहारान् = द्वारपालों को। उपकरणसम्भारसंग्रहार्थम् = आवश्यक सामग्री-समूह के संग्रह के लिए, उपक्रियन्ते एभिः इति उपकरणानि, उपकरणानाम् सम्भारः = उपकरणसम्भारः (षष्ठी-तत्पुरुष) उपकरणसम्भारस्य संग्रहार्थम्। उप + कृ + ल्युट् = उपकरणम्, सम्भारः = सम् + √भृ + घञ्। अधीतसर्वशास्त्रस्य = जिसने सभी शास्त्रों का अध्ययन कर लिया है। अधीतं सर्वं शास्त्रं येन सः, तस्य (बहुब्रीहि समास)। निसर्गतः= स्वाभाविक रूप से। यौवनप्रभवम् = युवावस्था के कारण उत्पन्न। यौवनेन प्रभवम् (तृतीयातत्पुरुष)। अपरिणामोपशमः = वृद्धावस्था में भी न शान्त होने वाला। परिणामे उपशम: परिणामोपशमः । न परिणामोपशम: अपरिणामोपशमः (नञ् तत्पुरुष)। विदितवेदितव्यस्य = जिसने ज्ञातव्य को जान लिया है। विदितं वेदितव्यं येन असौ विदितवेदितव्यः तस्य (बहुव्रीहि), √विद् + क्त = विदितम्, √विद् + तव्यत् = वेदितव्यम्।

2. गर्भेश्वरत्वमभिनवयौवनत्वम्, अप्रतिमरूपत्वममानुषशक्तित्वञ्चेति महतीयं खल्लवनर्थ-परम्परा। यौवनारम्भे च प्रायः शास्त्रजलप्रक्षालन-निर्मलापि कालुष्यमुपयाति बुद्धिः। नाशयति च पुरुषमत्यासगो विषयेषु। भवादृशा एव भवन्ति भाजनान्युपदेशानाम्। अपगतमले हि मनसि विशन्ति सुखेनोपदेशगुणाः। हरति अतिमलिनमपि दोषजातं गुरूपदेशः गुरूपदेशश्च नाम अखिलमलप्रक्षालनक्षमम् अजलं स्नानम्। विशेषेण तु राज्ञाम्। विरला हि तेषामुपदेष्टारः। राजवचनमनुगच्छति जनो भयात्। उपदिश्यमानमपि ते न शृण्वन्ति।अवधीरयन्तः खेदयन्ति हितोपदेशदायिनो गुरून्।

हिन्दी-अनुवादः
जन्म से ही अधिकार सम्पन्नता, नया यौवन, अनुपम सौन्दर्य और अमानुषी शक्ति का होना-यह महान् अनर्थ की परम्परा (शंखला) है। युवावस्था के प्रारम्भ में मनुष्य की बुद्धि शास्त्ररूपी जल से धुलने के कारण स्वच्छ होती हुई भी प्रायः दोषपूर्ण हो जाती है। और विषयों में अति आसक्ति मनुष्य का विनाश कर देती है।
आप जैसे व्यक्ति ही उपदेशों के पात्र होते हैं। निर्दोष मन में ही उपदेश के गुण सुखपूर्वक प्रवेश करते हैं। गुरु का उपदेश अत्यन्त मलिन दोषसमूह को भी दूर कर देता है। गुरु का उपदेश सम्पूर्ण मलों को धोने में समर्थ जलरहित स्नान है। (अर्थात् जैसे पानी से स्नान करने पर बाहर के सब मैल धुल जाते हैं, वैसे ही गुरु के उपदेश से सब आन्तरिक दोष दूर हो जाते हैं।) ये उपदेश राजाओं के लिए तो विशेष रूप से लाभकारी होते है; क्योंकि उन्हें उपदेश देने वाले बहुत कम लोग होते हैं। लोग प्राय: भय के कारण राजा के वचनों का ही अनुकरण करते हैं। उपदेश देते हुए (विद्वान्) को भी वे सुनते नहीं हैं। वे हितकारी उपदेश करने वाले गुरुओं का तिरस्कार करते हुए उन्हें खिन्न कर देते हैं।

शब्दार्थाः टिप्पण्यश्च
गर्भेश्वरत्वम् = जन्म से प्राप्त प्रभुत्व। गर्भतः एव ईश्वरः = गर्भेश्वरः तस्य भावः गर्भेश्वरत्वम्। भवादृशाः = आप जैसे ही, भवत् + दृश् + क्विप्, प्रथमा विभक्ति । शास्त्रजलप्रक्षा-लननिर्मला = शास्त्ररूपी जल द्वारा धोने से निर्मल। शास्त्रमेव जलं शास्त्रजलम्, तेन प्रक्षालनेन निर्मला। अपगतमले = दोषरहित होने पर, अपगतः मलः यस्मात् तत् अपगतमलम् तस्मिन् अपगतमले (पञ्चमी तत्पुरुष)। उपदेष्टारः = उपदेश देने वाले, उप + दिश् + तृच् प्रथमा विभक्ति बहुवचन। अवधीरयन्तः =तिरस्कृत करते हुए, अव + धीर + णिच् + शतृ प्रथमा विभक्ति बहुवचन।

HBSE 12th Class Sanskrit Solutions Shashwati Chapter 5 शुकनासोपदेशः

3. आलोकयतु तावत् कल्याणाभिनिवेशी लक्ष्मीमेव प्रथमम्। न ह्येवं-विधमपरिचितमिह जगति किञ्चिदस्ति यथेयमनार्या। लब्धापि खलु दुःखेन परिपाल्यते। परिपालितापि प्रपलायते। न परिचयं रक्षति । नाभिजनमीक्षते। न रूपमालोकयते। न कुलक्रममनुवर्तते। न शीलं पश्यति। न वैदग्ध्यं गणयति। न श्रुतमाकर्णयति। न धर्ममनुरुध्यते। न त्यागमाद्रियते।न विशेषज्ञतां विचारयति। नाचारं पालयति। न सत्यमवबुध्यते। पश्यत एव नश्यति। सरस्वतीपरिगृहीतं नालिगति जनम्। गणवन्तं न स्पशति। सुजनं न पश्यति। शूरं कण्टकमिव परिहरति। दातारं दुःस्वप्नमिव न स्मरति। विनीतं नोपसर्पति। तृष्णां संवर्धयति। लघिमानमापादयति। एवंविधयापि चानया कथमपि दैववशेन परिगृहीताः विक्लवाः भवन्ति राजानः, सर्वाविनयाधिष्ठानतां च गच्छन्ति।

हिन्दी-अनुवादः
हे चन्द्रापीड ! तुम कल्याण (मंगल) के लिए प्रयत्नशील हो, इसलिए पहले लक्ष्मी को ही विचार कर देखो। इस जैसी अपरिचित इस संसार में अन्य कोई वस्तु नहीं जैसी यह अनार्या लक्ष्मी है। इस लक्ष्मी को प्राप्त कर लेने पर भी, इसका महाकष्ट से पालन (रक्षण) करना पड़ता है और यह लक्ष्मी न परिचय की परवाह करती है, न कुलीन की ओर देखती है, न सौन्दर्य (रूप) को देखती है, न कुल-परम्परा का अनुगमन करती है। न सच्चरित्र को देखती है, न कुशलता (पाण्डित्य) की परवाह करती है। न शास्त्रज्ञान को सुनती है, न धर्म से रोकी जाती है, न त्याग (दान) को आदर देती है। न विशेष ज्ञान का विचार करती है। न सदाचार का पालन करती है। न सत्य को जानती है। यह देखते ही देखते नष्ट हो जाती है। सरस्वती से युक्त (विद्यावान्, विद्वान्) मनुष्य को यह ईर्ष्यावश ही मानो आलिंगन (स्वीकार) नहीं करती है। शौर्य आदि गुणों वाले व्यक्ति का स्पर्श नहीं करती है। सज्जन की ओर यह देखती भी नहीं है। शूरवीर को काँटे के समान छोड़ देती है। दानी का, दुःस्वप्न के समान स्मरण भी नहीं करती है। विनम्र व्यक्ति के पास फटकती भी नहीं है। यह तृष्णा (= लालसा) को बढ़ाती है। मनुष्य को छोटा (तुच्छ) बना देती है। ऐसी दुराचारिणी इस लक्ष्मी द्वारा जैसे-तैसे भाग्य के कारण, पकड़े गए (जकड़े गए) राजा लोग, अत्यन्त व्याकुल बने रहते हैं और सब प्रकार के दुराचारों (दुष्कृत्यों) के निवास स्थान को प्राप्त कर लेते हैं।

शब्दार्थाः टिप्पण्यश्य
कल्याणाभिनिवेशी = मङ्गल के अभिलाषी, कल्याणे अभिनिवेष्टुं शीलं यस्य सः (बहुब्रीहि)। परिपाल्यते = रखी जा सकती है, परि + /पाल् + कर्मणि यक् + लट् लकार प्रथम पुरुष एकवचन। प्रपलायते = भाग जाती है। वैदग्धयम् = पाण्डित्य को, विदग्धस्य भावो वैदग्ध्यम्, विदग्ध + ष्यञ्। अनुरुध्यते = अनुरोध करती है, अनु + /रुध् + लट्, प्रथम पुरुष एकवचन। अवबुध्यते = जानी जाती है, पहचानी जाती है। नोपसर्पति = समीप नहीं जाती, पार्वे न गच्छति।

संवर्धयति = बढ़ाती है। लघिमानमापादयति = निम्नता प्रदान करती है, लघिमानम् = लघोर्भावः लघिमा (लघु + इमनिच्) तम् आपादयति = आ + Vपद् + णिच् + लट् प्रथम पुरुष एकवचन। विक्लवाः = विह्वल-विकल। सर्वाविनयाधिष्ठानताम् = सभी प्रकार के अविनयों (दुष्कृत्यों, दुष्ट आचरणों) के निवास स्थान को सर्वेषाम् अविनयानाम् अधिष्ठानताम् (षष्ठी-तत्पुरुष)।

HBSE 12th Class Sanskrit Solutions Shashwati Chapter 5 शुकनासोपदेशः

4. अपरे तु स्वार्थनिष्पादनपरैः दोषानपि गुणपक्षमध्यारोपयद्भिः प्रतारणकुशलैधूर्तेः प्रतार्यमाणा वित्तमदमत्तचित्ता सर्वजनोपहास्यतामुपयान्ति। न मानयन्ति मान्यान्, जरावैक्लव्यप्रलपितमिति पश्यन्ति वृद्धोपदेशम्। कुप्यन्ति हितवादिने। सर्वथा तमभिनन्दन्ति, तं संवर्धयन्ति, तस्य वचनं शृण्वन्ति, तं बहु मन्यन्ते योऽहर्निशम् अनवरतं विगतान्यकर्तव्यः स्तौति, यो वा माहात्म्यमुद्भावयति। 

हिन्दी-अनुवादः
कुछ राजा लोग तो स्वार्थ सिद्ध करने में तत्पर, दोषों में गुणों को आरोपित करने वाले, ठग-विद्या में अतिनिपुण, धूर्तबुद्धि लोगों के द्वारा ठगे जाते हुए धन के मद से उन्मत्त चित्त वाले होकर सब लोगों की हँसी के पात्र बनते हैं। वे मानवीय लोगों का सम्मान नहीं करते। वृद्धों के उपदेश को, यह मानकर देखते हैं कि यह तो उनका बुढ़ापे में बड़बड़ाना है। हितकारी वचन बोलने वाले पर क्रोध करते हैं। सभी प्रकार से उसका वे अभिनन्दन करते हैं, उसे ही सहायता करके बढ़ाते हैं; उसका ही वचन (कहना) सुनते हैं, उसी का बहुत आदर करते हैं, जो दिन-रात निरन्तर अन्य सब काम छोड़कर, उनकी प्रशंसा करता है अथवा, जो उनकी महिमा को प्रकट करता है।

शब्दार्थाः टिप्पण्यश्च
अध्यारोपयद्भिः = आरोपित करने वाले। प्रतारणकुशलैः = ठगने में कुशल-निपुण, प्रतारणासु कुशलाः प्रतारणकुशलाः तैः, सप्तमी तत्पुरुष। प्रतार्यमाणाः = ठगे गए, प्र + √तु + कर्मणि यक् + शानच् + प्रथमा विभक्ति एकवचन। जरावैक्लव्यप्रलपितम् = वृद्धावस्था की विकलता से निरर्थक वचन के रूप में, जरसः वैक्लव्यं = जरावैक्लव्यम् (षष्ठी तत्पुरुष) तेन प्रलपितम्। विगतान्यकर्तव्यः = अन्य सब कर्तव्य कर्मों को छोड़कर। विगतम् अन्यकर्तव्यं यस्य सः (बहुव्रीहि)। अहर्निशम् = दिन-रात । उद्भावयति = प्रकट करता है। उद् + √भू + णिच् + लट्, प्रथम पुरुष एकवचन।

HBSE 12th Class Sanskrit Solutions Shashwati Chapter 5 शुकनासोपदेशः

5. तदतिकुटिलचेष्टादारुणे राज्यतन्त्रे, अस्मिन् महामोहकारिणि च यौवने कुमार! तथा प्रयतेथाः यथा नोपहस्यसे जनैः, न निन्द्यसे साधुभिः, न धिक्क्रियसे गुरुभिः, नोपालभ्यसे सुहृद्भिः, न वञ्च्यसे धूर्तेः, न विडम्ब्यसे लक्ष्या, नाक्षिप्यसे विषयैः, नापहयिसे सुखेन।

हिन्दी-अनुवादः
हे राजकमार चन्द्रापीड ! इसीलिए अत्यन्त कुटिल चेष्टाओं से युक्त इस कठोर राज्यतन्त्र में और इस महामूर्छा पैदा करने वाली युवावस्था में तुम वैसा प्रयत्न करना जिससे तुम जनता की हँसी के पात्र न बनो। सज्जन तुम्हारी निन्दा न करें। गुरु लोग तुम्हें धिक्कार न कहें। मित्र लोग तुम्हें उपालम्भ (लाम्भा, उलाहना) न दें। धूर्त तुम्हें ठग न सकें। लक्ष्मी तुम्हारे साथ धोखा न कर सके। विषयों से तुम आक्षिप्त न हो जाओ अर्थात् तुम विषयासक्त न बन सको। सुख तुम्हारा अपहरण न कर ले अर्थात् तुम राजसुख में डूब कर कर्तव्य से विमुख न हो जाओ।

शब्दार्थाः टिप्पण्यश्च
महामोहकारिणि = अत्यन्त मोह रूप अज्ञान अन्धकार को पैदा करने वाले, ‘यौवने’ पद का विशेषण। प्रयतेथाः = प्रयत्न कीजिए। प्र + √यत् + विधिलिङ् मध्यमपुरुष एकवचन। विडम्ब्यसे = धोखे में न डाले जा सको। उपालभ्यसे = उपालम्भ / उलाहना न दिए जा सको। उप + आ + √लभ् (कर्मवाच्य) + लट्, मध्यमपुरुष, एकवचन। नोपहस्यसे जनैः = लोगों के द्वारा उपहास के पात्र न बनो, उप + √हिस् + यक् + लट्, मध्यम पुरुष एकवचन, यहाँ ‘उपहस्यसे’ क्रिया में कर्मणि यक् प्रत्यय हुआ है। अतः ‘जनाः’ कर्ता के अनुक्त होने से अनुक्त कर्ता ‘कर्तृकर्मणोस्तृतीया’ से तृतीया विभक्ति हो गई है।

HBSE 12th Class Sanskrit Solutions Shashwati Chapter 5 शुकनासोपदेशः

6. इदमेव च पुनः पुनरभिधीयसे-विद्वांसमपि सचेतसमपि, महासत्त्वमपि, अभिजातमपि, धीरमपि, प्रयत्लवन्तमपि पुरुषं दुर्विनीता खलीकरोति लक्ष्मीरित्येता-वदभिधायोपशशाम। चन्द्रापीडस्ताभिरुपदेशवाग्भिः प्रक्षालित इव, उन्मीलित इव, स्वच्छीकृत इव, पवित्रीकृत इव, उद्भासित इव, प्रीतहृदयो स्वभवनमाजगाम।

हिन्दी-अनुवादः
यही उपदेश बार-बार दोहराया (कहा) जाता है कि विद्वान् को भी, ज्ञानवान् को भी, महाबलवान् को भी, कुलीन को भी, धैर्यवान् को भी और पुरुषार्थी मनुष्य को भी यह दुराचारिणी लक्ष्मी दुष्ट बना देती है। इतना कहकर वे (मन्त्री शुकनास) शान्त (चुप) हो गए।

राजकुमार चन्द्रापीड इन उपदेश वचनों के कारण मानो पूर्णतया धुला हुआ-सा, मानो नींद से खुली हुई आँखों वालासा, मानों स्वच्छ किया हुआ-सा, मानो पवित्र किया हुआ-सा, मानो चमकाया हुआ-सा तथा प्रसन्नहृदय होकर अपने भवन की ओर आ गया।

शब्दार्थाः टिप्पण्यश्च
अभिजातम् = कुलीन को, अभि + √जन् + क्त, द्वितीया विभक्ति, एकवचन। प्रशस्तं जातं यस्य स अभिजातः तम् अभिजातम्, (बहुव्रीहि समास)। अभिधीयसे = हा जा रहा है। अभि + √धा + यक् + लट्, मध्यमपुरुष एकवचन। खलीकरोति = दुष्ट बना देती है। न खलम् अखलम्, अखलं खलं करोति इति, खल + च्चि + √कृ + लट्, प्रथमपुरुष एकवचन। उपशशाम = चुप हो गए, उप + √शम् + लिट्, प्रथमपुरुष एकवचन। प्रक्षालित इव = पूर्णतया धोए हुए। प्र + √क्षाल् + क्त्, प्रथमपुरुष एकवचन। आजगाम = आ गया। आ + / गम् + लिट्, प्रथमपुरुष एकवचन।

HBSE 12th Class Sanskrit Solutions Shashwati Chapter 5 शुकनासोपदेशः

शुकनासोपदेशः (शुकनास का उपदेश) Summary in Hindi

शुकनासोपदेशः पाठ परिचय

महाकवि बाणभट्ट संस्कृत के सर्वाधिक प्रतिभाशाली गद्यकार हैं। इन्होंने कान्यकुब्ज (कन्नौज) के राजा हर्षवर्धन के जीवन पर ‘हर्षचरितम्’ लिखा है। हर्षवर्द्धन का राज्यकाल 606 ई० से 648 ई० तक रहा। अतः बाणभट्ट का भी यही समय होना चाहिए। इनकी दो रचनाएँ सुप्रसिद्ध हैं-हर्षचरितम् और कादम्बरी।

‘हर्षचरितम्’ बाणभट्ट की प्रथम गद्य कृति है। स्वयं बाणभट्ट ने इसे आख्यायिका कहा है। ‘हर्षचरितम्’ में एक ऐतिहासिक तथ्य को अलंकृत शैली में बाण ने प्रस्तुत किया है। हर्ष के समकालीन युग की सांस्कृतिक, सामाजिक, राजनीतिक एवं धार्मिक परिस्थितियों के अध्ययन के लिए ‘हर्षचरितम्’ से उत्तम अन्य कोई ग्रन्थ नहीं है। कादम्बरी संस्कृत साहित्य का सर्वोत्कृष्ट गद्य काव्य है। यह ‘कथा’ श्रेणी का काव्य है। चन्द्रापीड-कादम्बरी तथा पुण्डरीकमहाश्वेता के प्रणय का चित्रण करने वाली कथा ‘कादम्बरी’ के दो भाग हैं। पूर्वार्ध तथा उत्तरार्ध इसका कथानक जटिल होते हुए भी मनोरम है। इसमें कथा का प्रारम्भ राजा शूद्रक के वर्णन से होता है। शूद्रक के यहाँ चाण्डालकन्या वैशम्पायन नामक शुक को लेकर पहुंचती है। शुक सभा में आत्म-वृत्तान्त सुनाता है। इस ग्रन्थ में तीन-तीन जन्मों की घटनाएँ गुम्फित हैं।

कादम्बरी संस्कृत साहित्य का सर्वोत्तम उपन्यास है। यद्यपि इसका कथानक जटिल है। परन्तु इसके वर्णन इतने सजीव हैं कि पाठक को कथाप्रवाह के विच्छेद का आभास ही नहीं हो पाता और वह वह उन वर्णनों में ही आनन्दित होने लगता है। यह काव्य रसिकों को मस्त कर देने वाली मदिरा के समान है। इसका रसास्वादन करने वालों को भोजन भी अच्छा नहीं लगता

‘कादम्बरी रसज्ञानामाहारोऽपि न रोचते’।

शुकनासोपदेशः पाठस्य सारः
महाकवि बाणभट्ट संस्कृत साहित्य के सर्वाधिक समर्थ गद्यकार हैं। कादम्बरी उनका प्रसिद्ध गद्यकाव्य है। ‘शुकनासोपदेशः’ यह पाठ कादम्बरी से ही लिया गया है। इस अंश का नायक राजकुमार चन्द्रापीड है। जो शूरवीर तथा विनयशील है। चन्द्रापीड के पिता तारापीड युवराज चन्द्रापीड का राजतिलक कर देना चाहते हैं। सेवकों को आवश्यक सामग्री इकट्ठी करने का आदेश दे दिया गया है। राजा तारापीड का एक अनुभवी मन्त्री शुकनास है। राजतिलक से पहले युवराज चन्द्रापीड मन्त्री शुकनास का दर्शन करने के लिए जाता है। शुकनास स्नेह भाव से उसे समय के अनुकूल उपदेश करते हैं। उसी उपदेश का संक्षेप प्रस्तुत पाठ में है।

मन्त्री शुकनास चन्द्रापीड को उपदेश करते हुए कहते हैं-“पुत्र चन्द्रापीड ! यद्यपि तुम सभी जानने योग्य बातें जानते हो, तुमने सभी शास्त्रों को पढ़ा है। तुम्हें किसी उपदेश की आवश्यकता नहीं। लेकिन युवा अवस्था में स्वभाव से ही जवानी के कारण अज्ञान बढ़ जाता है। धन का नशा बुढ़ापा आने पर भी शान्त नहीं होता। राज्य सुख ऐसे ज्वर के समान होता है, जिसकी नींद खुलने में नहीं आती। जीवन में चार वस्तुएँ अनर्थ करने वाली होती हैं
(i) जन्म से ही प्रभुता होना
(ii) नया यौवन
(iii) अति सुन्दर रूप
(iv) अमानुषी शक्ति

जवानी में शास्त्र के जल से पवित्र हुई बुद्धि भी दोषपूर्ण हो जाती है। मनुष्य विषयों में फँस जाता है और उसका नाश हो जाता है। तुम्हारे जैसे कुछ विरले लोग होते हैं, जो उपदेश के अधिकारी होते हैं। तुम्हारा मन पवित्र है इसलिए

आसानी से उपदेश ग्रहण कर सकते हो। गुरु के उपदेश में बहुत गुण होते हैं। राजाओं को तो उपदेश की और भी आवश्यकता होती है। परन्तु राजा को उपदेश देने वाले भी विरले होते हैं और गुरु का उपदेश सुनने वाले राजा भी विरले होते हैं। प्रायः राजा लोग गुरु के उपदेश का तिरस्कार ही करते हैं।

अपना कल्याण चाहने वाले मनुष्य को सबसे पहले लक्ष्मी के विषय में विचार करना चाहिए यह लक्ष्मी बड़ी अनर्थकारी होती है। बड़ी कठिनता से धन इकट्ठा होता है और इसकी सँभाल के लिए भी दुःख उठाना पड़ता है। लक्ष्मी चंचल है। यह किसी के पास स्थायी रूप में नहीं ठहरती। यह मनुष्य के परिचय, उच्च कुल, सुन्दर रूप, सदाचार, चतुराई, विद्या, धर्म आदि श्रेष्ठ गुणों की ओर कोई ध्यान नहीं देती। राजा लोग इस लक्ष्मी के कारण ही व्याकुल रहते हैं और सभी प्रकार के दुर्गुणों और दुर्व्यसनों का शिकार हो जाते हैं।

कुछ स्वार्थी लोग ऐसे भी होते हैं जो राजा के दोषों को गुण बताया करते हैं, ऐसे धूर्त लोग धन के नशे में चूर राजा को धोखा दिया करते हैं और ऐसे राजा सारी जनता के उपहास का पात्र बन जाते हैं। ऐसे घमंडी राजा वृद्धों के उपदेशों को बुढ़ापे की बड़बड़ाहट कहते हैं। उन्हें हितचिन्तकों की पहचान नहीं होती, अत: उन पर क्रोध करते हैं। चापलूसों को अपने अंग-संग रखते हैं। हे राजकुमार ! इसीलिए भयंकर मोह को पैदा करने वाली इस युवावस्था में कुटिल राजतन्त्र की बागडोर सँभालकर तुम ऐसा आचरण करना कि लोग तुम्हारी हँसी न उड़ाएँ, सज्जन निन्दा न करें, गुरु तुम्हें धिक्कार न दे, धूर्त लोग तुम्हें ठग न सकें, लक्ष्मी का मद तुम्हें डावाँडोल न कर दे, विषयसुख तुम्हारे जीवन को नरक न बना दें।”

मन्त्री शुकनास के इस उपदेश को सुनकर चन्द्रापीड का चित्त धुल-सा गया था। उसकी आँखें ज्ञान के प्रकाश से खुल गई थी। उसका हृदय पवित्रता के प्रकाश से भर गया था। इस सारगर्भित उपदेश को पाकर चन्द्रापीड अत्यन्त प्रसन्न एवं सन्तुष्ट होकर राजभवन की ओर लौट गया। शुकनास का यह उपदेश जवानी की दहलीज़ पर पाँव रखने वाले हर नवयुवक के लिए ग्रहण करने योग्य है।

Leave a Comment

Your email address will not be published. Required fields are marked *