Haryana State Board HBSE 7th Class Sanskrit Solutions Ruchira Chapter 11 समवायो हि दुर्जयः Textbook Exercise Questions and Answers.
Haryana Board 7th Class Sanskrit Solutions Ruchira Chapter 11 समवायो हि दुर्जयः
समवायो हि दुर्जयः Class 7 Question Answers HBSE प्रश्न 1.
प्रश्नानाम् उत्तराणि एकपदेन लिखत
(क) वृक्षे का प्रतिवसति स्म?
(ग) गज: केन शाखाम् अत्रोटयत्?
(ङ) मक्षिकायाः मित्रं कः आसीत्?
(ख) वृक्षस्य अधः कः आगतः?
(घ) काष्ठकूट: चटकां कस्याः समीपम् अनयत्?
उत्तरम्:
(क) चटका
(ख) प्रमत्तः गजः
(ग) शुण्डेन
(घ) वीणारवा-नाम्न्याः मक्षिकायाः समीपम्
(ङ) मण्डूकः।
समवायो हि दुर्जयः Question Answer HBSE Class 7 Civics प्रश्न 2.
रेखाड्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) कालेन चटकायाः सन्ततिः जाता।
(ख) चटकायाः नीडं भुवि अपतत्।
(ग) गजस्य वधेनैव मम दुःखम् अपसरेत्।
(घ) काष्ठकूटः चञ्वा गजस्य नयने स्फोटयिष्यति।
उत्तरम्:
(प्रश्ननिर्माणम्)
(क) कालेन कस्याः सन्ततिः जाता ?
(ख) चटकायाः किं भुवि अपतत् ?
(ग) कस्य वधेनैव मम दुःखम् अपसरेत् ?
(घ) काष्ठकूट: केन गजस्य नयने स्फोटयिष्यति ?
Class 7 Civics Chapter 11 HBSE समवायो हि दुर्जयः प्रश्न 3.
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत
करिष्यामि गमिष्यति अनयत् पतिष्यति स्फोटयिष्यति त्रोटयति
(क) काष्ठकूटः चञ्च्वा गजस्य नयने …………………………….।
(ख) मार्गे स्थितः अहमपि शब्द …………………………….।
(ग) तृषार्तः गजः जलाशयं …………………………….।
(घ) गजः गर्ते …………………………….।
(ङ) काष्ठकूटः तां मक्षिकायाः समीपं …………………………….।
(च) गजः शुण्डेन वृक्षशाखाः …………………………….।
उत्तरम्:
(क) काष्ठकूट: चञ्च्वा गजस्य नयने स्फोटयिष्यति ।
(ख) मार्गे स्थितः अहमपि शब्दं करिष्यामि ।
(ग) तृषार्तः गजः जलाशयं गमिष्यति ।
(घ) गजः गर्ते पतिष्यति ।
(ङ) काष्ठकूटः तां मक्षिकायाः समीपम् अनयत् ।
(च) गजः शुण्डेन वृक्षशाखाः त्रोटयति ।
Class 7 समवायो हि दुर्जयः HBSE Civics प्रश्न 4.
प्रश्नानाम् उत्तराणि एकवाक्येन लिखत
(क) चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छत्?
(ख) चटकायाः काष्ठकूटस्य च वार्ता श्रुत्वा मक्षिका किम् अवदत्?
(ग) मेघनादः मक्षिकां किम् अवदत्?
(घ) चटका काष्ठकूटं किम् अवदत्?
उत्तरम्:
(क) चटकायाः विलापं श्रुत्वा काष्ठकूटः ताम् अपृच्छत्-“भद्रे, किमर्थं विलपसि?”
(ख) चटकायाः काष्ठकूटस्य च वार्ता श्रुत्वा मक्षिका अवदत्-“ममापि मित्रं मण्डूकः मेघनादः अस्ति।
(ग) मेघनादः मक्षिकाम् अवदत्-“यथाहं कथयामि तथा कुरुतम्।”
(घ) चटका काष्ठकूटम् अवदत्-“एकेन दुष्टेन गजेन मम सन्ततिः नाशिताः। तस्य गजस्य वधेन एव मम दुःखम् अपसरेत्।”
प्रश्न 5.
उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत –
उत्तरम्:
प्रश्न 6.
उदाहरणानुसारं ‘स्म’ शब्दं योजयित्वा भूतकालिकक्रियां रचयत
यथा अवसत् – वसति स्म।
अपठत् – ………….।
अत्रोटयत् – ………….।
अपतत् – ………….।
अपृच्छत् – ………….।
अवदत् – ………….।
अनयत् – ………….।
उत्तर
अपठत् – पठति स्म।
अत्रोटयत् – त्रोटयति स्म।
अपतत् – पतति स्म।
अपृच्छत् – पृच्छति स्म।
अवदत् – वदति स्म।
अनयत् – नयति स्म।
प्रश्न 7.
(क) ………… बालिका मधुरं गायति। (एकम्, एका, एक:)
(ख) ………… कृषकाः कृषिकर्माणि कुर्वन्ति। (चत्वारः, चतस्रः, चत्वारि)
(ग) ………………… पत्राणि सुन्दराणि सन्ति। (ते, ताः, तानि)
(घ) धेनवः दुग्धं …………… । (ददाति, ददति, ददन्ति)
(ङ) वयं संस्कृतम् …………. (अपठत्, अपठन्, अपठाम)
उत्तर
(क) एका बालिका मधुरं गायति। (एकम्, एका, एकः)
(ख) चत्वारः कृषकाः कृषिकर्माणि कुर्वन्ति । (चत्वारः, चतस्रः, चत्वारि)
(ग) तानि पत्राणि सुन्दराणि सन्ति। (ते, ताः, तानि)
(घ) धेनवः दुग्धं ददति। (ददाति, ददति, ददन्ति)
(ङ) वयं संस्कृतम् अपठाम। (अपठत्, अपठन्, अपठाम)
मूलपाठः
1. पुरा एकस्मिन् वृक्षे एका चटका प्रतिवसति स्म। कालेन तस्याः सन्ततिः जाता। एकदा कश्चित् प्रमत्तः गजःतस्य वृक्षस्य अधः आगत्य तस्य शाखां शुण्डेन अत्रोटयत्। चटकायाः नीडं भुवि अपतत्। तेन अण्डानि विशीर्णानि।अथ सा चटका व्यलपत्। तस्याः विलापं श्रुत्वा काष्ठकूटः नाम खगः दुःखेन ताम् अपृच्छत्-“भद्रे, किमर्थं विलपसि ?” इति।
चटकावदत्-“दुष्टेनैकेन गजेन मम सन्ततिः नाशिता। तस्य गजस्य वधेनैव मम दुःखम् अपसरेत्।” ततः काष्ठकूटः तां वीणारवा-नाम्न्याः मक्षिकायाः समीपम् अनयत् । तयोः वार्ता श्रुत्वा मक्षिकावदत्-“ममापि मित्रं मण्डूकः मेघनादः अस्ति। शीघं तमुपेत्य यथोचितं करिष्यामः।” तदानीं तौ मक्षिकया सह गत्वा मेघनादस्य पुरः सर्वं वृत्तान्तं न्यवेदयताम्।
शब्दार्थाः
हिन्दी-अनुवाद :
पहले (पुराने समय में) एक पेड़ पर एक चिड़िया रहती थी। समयानुसार उसकी सन्तान पैदा हुई। एक बार मदमस्त हाथी ने उस पेड़ के नीचे आकर उसकी टहनी को अपनी सूंड से तोड़ दिया। चिड़िया का घोंसला जमीन पर गिर गया। इस कारण अण्डे नष्ट हो गए। वह चिड़िया विलाप करके (रोने) लगी। उसके रोने को सुनकर काष्ठकूट’ नाम का पक्षी दुःख से उससे पूछने लगे-“आप क्यों रो रही हैं ?”
चिड़िया बोली- “एक दुष्ट हाथी ने मेरी सन्तान को नष्ट कर दिया है। उस हाथी के वध से ही मेरा दुःख दूर होगा। तब काष्ठकूट उस चिड़िया को वीणारवा नाम की मक्खी के पास ले गया।” उनकी बात सुनकर मक्खी बोली-” मेरा भी मित्र (दोस्त) मेघनाद नामक मेढक है। उसके पास जल्दी जाकर जैसा ठीक होगा हम वैसा करेंगे।” तब उन दोनों ने मक्खी के साथ जाकर मेघनाद के सामने सारा समाचार निवेदन किया (कहा, सुनाया)।
सन्धिच्छेदा:
कश्चित् – क : + चित्। व्यलपत् – वि + अलपत्। चटकावदत् – चटका + अवदत्। दुष्टेनैकेन – दुष्टेन + एकेन। वधेनैव = वधेन + पंव। ममापि = मम + अपि। यथोचितम् – यथा + उचितम्। न्यवेदताम् – नि + अवेदताम्।
संयोगः – किमर्थम्-किम् अर्थम्। तमुपेत्य-तम् + उपेत्य।
2. मेघनादः अवदत्-“यथाहं कथयामि तथा कुरुतम्। मक्षिके! प्रथमं त्वं मध्याह्ने तस्य गजस्य कर्णे शब्दं कुरु, येन सः नयने निमील्य स्थास्यति। तदा काष्ठकूटः चञ्च्चा तस्य नयने स्फोटयिष्यति। एवं सः गजः अन्धः भविष्यति। तृषार्तः सः जलाशयं गमिष्यमित। मार्गे महान् गर्त्तः अस्ति। तस्य अन्तिके अहं स्थास्यामि शब्दं च करिष्यामि। मम शब्देन तं गर्त्त जलाशयं मत्वा स तस्मिन्नेव गर्ते पतिष्यति मरिष्यति च।” अथ तथाकृते सः गजः मध्याह्ने मण्डूकस्य शब्दम् अनुसत्य महतः गर्तस्य अन्तः पतितः मृतः च। तथा चोक्तम्’बहूनामप्यसाराणां समवायो हि दुर्जयः।”
शब्दार्थाः
हिन्दी-अनुवाद : मेघनाद बोला-“जैसा मैं कहूँ तुम दोनों वैसे ही करना। हे मक्खी ! पहले तुम दोपहर के समय उस हाथी के कान में आवाज करना, जिससे वह (हाथी) आँखें बन्द करके रुक जाएगा। तब काष्ठकूट !च से उसकी आँखें फोड़ देगा। इस प्रकार वह हाथी अन्धा हो जाएगा। प्यास से पीड़ित होकर वह तालाब पर जाएगा। रास्ते में बड़ा भारी गड्ढा है। उस (गड्ढे) के पास मैं रुका रहूँगा और आवाज पैदा करूँगा। मेरे आवाज करने पर उस गड्ढे को तालाब समझकर वह (हाथी) उसी गड्ढे में गिर जाएगा और मर जाएगा।” वैसा करने पर वह हाथी दोपहर में मेढक की आवाज का पीछा करता हुआ बड़े भारी गड्ढे के भीतर गिरा और मर गया। इसलिए कहा भी गया है
“बहुत सी कमजोर वस्तुओं अथवा प्राणियों का समूह (समुदाय) कठिनता से जीतने योग्य होता है।”
सन्धिच्छेदाः
यथाहम् – यथा + अहम्। तृषार्तः – तृषा + आर्तः। जलाशयम् = जल + आशयम्। तस्मिन्नेव = तस्मिन् + एव। चोक्तम्-च + उक्तम्। अप्यसाराणाम् = अपि + असराणाम्।
संयोगः – बहूनामपि = बहूनाम् + अपि।